________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
#
***********************
बीअदिणे सविसेस, संजाओ तस्स रोगउवसामो । एवं दिवसे दिवसे,रोगखए वड्डए भावो ॥२३५॥ अह नवमे दिवसंमी, पूअं काऊण वित्थरविहीए । पंचामएण ण्हवणं, करेइ सिरिसिद्धचक्कस्स ॥२३६॥ ण्हवणूसवंमि विहिए, तेणं संतीजलेण सव्वंगं । संसित्तो सो कुमरो, जाओ सहसत्ति दिब्बतणू ॥२३७॥ सब्वेसिं संजायं, अच्छरिअं तस्स दंसणे जाव । ताव गुरू भणइ अहो, एयस्स किमेयमच्छरिअं? ॥२३८॥ इमिणा जलेण सब्बे, दोसा गहभूअसाइणीपमुहा । नासंति तक्खणेणं, भविआणं सुद्धभावाणं ॥२३९॥
द्वितीयदिने तस्य-श्रीपालकुमारस्य सह विशेषेणेति-सविशेष रोगस्योपशमः सञ्जातः, एवम्-अमुना प्रकारेण दिवसे दिवसे- दिने दिने रोगस्य क्षये सति भावो वर्द्धते-शुभपरिणामो वृद्धिं यातीत्यर्थः ॥२३५॥ अथ नवमे दिवसे विस्तरविधिना श्रीजिनपूजां कृत्वा पञ्चामृतेन-प्रागुक्तस्वरूपेण श्रीसिद्धचक्रस्य-यन्त्रराजस्य स्नपनं करोति ॥२३६॥श्रीसिद्धचक्रस्य स्नपनोत्सवे स्नात्रमहोत्सवे विहिते-कृते सति तेन शान्तिजलेन सर्वस्मिन् अङ्गे संसिक्तः स कुमारः सहसा इत्यकस्मादेव दिव्या-अद्भुता मनोज्ञा तनुः-कायो यस्य स दिव्यतनुर्जातः, इतिनिपातोऽवधारणे ॥२३७॥ तादृगरूपस्य तस्य- श्रीपालस्य दर्शने सति यावत् सर्वेषां लोकानामाश्चर्यं सजातं तावद् गुरुर्भणति, अहो लोका ! एतस्य किमेतदाश्चर्यं ?, न किमपीत्यर्थः ॥२३८॥ अनेन शान्तिजलेन शुद्धभावानां- निर्मलमनःपरिणामानां भव्यानां ग्रहभूतशाकिनीप्रमुखाः सर्वेऽपि दोषास्तत्क्षणेन -तत्कालमेव नश्यन्ति-प्रणाशमुपयान्ति ॥२३९॥
+**************************
y
For Private and Personal Use Only