________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
ल
क
हा
५७
*
*
*
*
नय तं करेइ माया, नेव पिया नेव बंधुवग्गो अ । जं वच्छल्लं साहम्मिआण सुस्सावओ कुणइ ॥ २३०॥ तत्थ ठिओ सो कुमरो, मयणावयणेण गुरूवएसेणं । सिक्खेइ सिद्धचक्कष्पसिद्धपूआविहिं सम्मं ॥ २३१ ॥ अह अन्नदिणे आसोअ-सेअअट्ठमितिहीइ सुमुहुत्ते । मयणासहिओ कुमरो, आरंभइ सिद्धचक्कतवं ॥२३२॥ पढमं तणुमणसुद्धि, काऊण जिणालए जिणच्चं च । सिरिसिद्धचक्कपूयं, अट्ठपयारं कुणइ विहिणा ॥२३३॥ * एवं कयविहिपूओ, पच्चक्खाणं करेइ आयामं । आणंदपुलइअंगो, जाओ सो पढमदिवसे वि ॥ २३४॥
*
www.kobatirth.org
*
न च तद्वात्सल्यं माता करोति, नैव पिता-जनकः, नैव बन्धुवर्गश्व-भ्रातृसमुदायः करोति, यत्साधर्मिकाणां वात्सल्यं * सुश्रावकः करोति ॥ २३०॥ तत्र - तस्मिन्स्थाने स्थितः स कुमारो मदनसुन्दर्या वचनेन तथा गुरूपदेशेन श्रीसिद्धचक्रस्य प्रसिद्धं * पूजाविधिं सम्यक् शिक्षति - अभ्यस्यति ॥२३१॥ अथानन्तरम् - अन्यस्मिन् दिने आश्विनश्वेताष्टमीतिथौ - आश्विनसुद्यष्टम्यां * शोभने मुहूर्त्ते मदनसुन्दरीसहितः श्रीपालकुमारः सिद्धचक्रतप आरभते- तत्प्रारम्भं करोतीत्यर्थः ॥२३२॥ प्रथमं तनोः - शरीरस्य मनसश्चान्तःकरणस्य शुद्धिं निर्मलतां कृत्वा च पुनः जिनालये- जिनगृहे जिनाच- जिनप्रतिमापूजां कृत्वाऽष्टप्रकारी श्रीसिद्धचक्रस्य पूजां विधिना करोति ॥ २३३ ॥ एवम् उक्तप्रकारेण कृता विधिना पूजा येन स एवंविधः श्रीपाल आचामाम्लं प्रत्याख्यानं करोति स श्रीपालकुमारः प्रथमदिवसेऽपि आनन्देन पुलकितरोमोद्गमयुतमङ्गं यस्य स एवंविधो जातः ॥२३४॥
*
Acharya Shri Kailassagarsuri Gyanmandir
*
For Private and Personal Use Only