________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
***********************
किं बहुणा जीवाणं, एयस्स पसायओ सयाकालं । मणवंछियत्थसिद्धी, हवेइ नत्थित्थ संदेहो ॥२२५॥ एवं तेसिं सिरिसिद्ध-चक्कमाहप्पमुत्तमं कहिउं । सावयसमुदायस्सवि, गुरुणो एवं उवइसंति ॥२२६॥ एएहिं उत्तमेहि, लक्खिज्जइ लक्खणेहिं एस नरो। जिणसासणस्स नूणं, अचिरेण पभावगो होही ॥२२७॥ तम्हा तुम्हं जुज्जइ,एसिं साहम्मिआण वच्छल्लं । काउं जेण जिणिंदेहिं वन्नि उत्तमं एयं ॥२२८॥ तो तुटेहिं तेहिं, सुसावएहिं वरंमि ठाणंमि । ते ठाविऊण दिन्नं, धणकणवत्थाइयं सब् ॥२२९॥
किंबहुनोक्तेन जीवानामेतस्य प्रसादतः सदाकालं-सर्वस्मिन्नपि काले मनोवाञ्छितार्थस्य सिद्धिर्भवति, नास्त्यत्र सन्देहःसंशयः ॥२२५॥ एवममुना प्रकारेण तयोः श्रीपालमदनसुन्दर्योरग्रे उत्तम-प्रधानं श्रीसिद्धचक्रस्य माहात्म्यं कथयित्वा श्रावकसमुदायस्य-श्रद्धालुसंघस्यापि गुरवः एवं-वक्ष्यमाणप्रकारेण उपदिशन्ति ॥२२६॥ एतैः उत्तमैर्लक्षणैः-चिह्नर्लक्ष्यते-ज्ञायते, एष नरो नूनं-निश्चितम् अचिरेण-स्वल्पकालेन जिनशासनस्य प्रभावक-उद्दीपनकृत् भविष्यतीति ॥२२७॥ तस्मात् युष्माकम् एषां साधर्मिकाणां-अनयोः साधर्मिकयोर्वात्सल्यं कर्तुं युज्यते, येन कारणेन जिनेन्द्रैः एतत्-साधर्मिकवात्सल्यम् उत्तम-प्रधानं वर्णितमस्ति ॥२२८॥ ततस्तुष्टैः तैः-सुश्रावकै ते-श्रीपालमदनमृन्दीवरे-प्रधाने स्थाने गृहाद्याश्रये स्थापयित्वा धनधान्यवस्त्रादिकं सर्वं वस्तुजातं दत्तम् ॥२२९॥
For Private and Personal Use Only