________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*-*-*-*-*-*-*-*-***************
एयंमि कीरमाणे, नवपयझाणं मणमि कायध्वं । पुन्ने य तवोकम्मे, उज्जमणंपि बिहेयब्वं ॥२२०॥ एअं च तवोकम्म, संमं जो कुणइ सुद्धभावेणं । सयलसुरासुरनरवर-रिद्वीउ न दुल्लहा तस्स ॥२२१॥ एयंमि को न हु दुट्ठकुटुखयजरभगंदराईआ। पहवंति महारोगा, पुबुप्पन्नावि नासंति ॥२२२॥ दासत्तं पेसत्तं, विकलत्तं दोहगत्तमंधत्तं । देहकुलजुंगियत्तं, न होइ एयस्स करणेणं ॥२२३॥ नारीणवि दोहग्गं, विसकन्नत्तं कुरंडरंडत्तं । वंझत्तं मयवच्छत्तणं च न हवेइ कइयावि ॥२२४॥
एतस्मिन्तपसि क्रियमाणे मनसि नवपदध्यानं कर्त्तव्यं, नवपदानां जापश्चात्र जघन्यतस्त्रयोदशसहस्राणीति वृद्धाः, चपुनस्तपःकर्मणि पूर्णे सति उद्यापनमपि विधातव्यं कर्त्तव्यं, हु इति निश्चयेन ॥२२०॥ यः प्राणी एतच्च सम्यक-समीचीनं तपःकर्म--तपोऽनुष्ठानं शुद्धभावेन करोति तस्य-प्राणिनः सकलसुरासुरनरवराणाम् ऋद्धयः-सम्पदोन दुर्लभाः-सुलभा एवेत्यर्थः ॥२२१॥ एतस्मिन्तपःकर्मणि कृते सति दुष्टकुष्ठ - क्षय - ज्वर - भगन्दराद्या महारोगा नैव प्रभवन्ति-नैवोत्पद्यन्ते, पूर्वोत्पन्ना रोगा अपि नश्यन्ति ॥२२२॥ एतस्य तपसः करणेन कर्तुर्दासत्वं न भवति, तथा प्रेष्यत्वं-कर्मकरत्वं न भवति, एवं विकलत्वंकलाहीनत्वं, दुर्भगत्वं-लोकेनिष्टत्वम्, अन्धत्वं-गताक्षत्वं, देहजुङ्गितत्वं-शरीरदूषितत्वं, कुलजुङ्गितत्वं-कुलदूषितत्वम् एतानि न भवन्ति ॥२२३॥ स्त्रीणामपि एते दोषाः कदापि न भवन्ति, के एते इत्याह- दौर्भाग्य-भाद्यनिष्टत्वं तथा विषकन्यात्वम्, एवं कुरण्डात्वं - कुलक्षणनारीत्वं रण्डात्वं-भर्तृविहीनत्वं वन्ध्यात्वं-निरपत्यत्वं मृतवत्सात्वं च एतानि न भवन्ति ॥२२४॥
***********************
For Private and Personal Use Only