________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
अ अ
हा
५४
***
*
*
*
एएण कारणेणं, पसन्नचित्तेण सुद्धसीलेण । आराहणिज्जमेअं, सम्मं तवकम्मविहिपुब्वं ॥२१६॥ * आसोअसेअअट्ठमि - दिणाओ आरंभिऊणमेयस्स । अट्ठविहपूयपुव्वं, आयामे कुणह अट्ठ दिणे ॥ २१७॥ * नवमंमि दिणे पंचामएण ण्हवणं इमस्स काऊणं । पूयं च वित्थरेणं, आयंबिलमेव कायव्वं ॥२१८॥ * एवं चित्तेवि तहा, पुणो पुणोऽट्ठाहियाण नवगेणं । एगासीए आयंबिलाण एवं हवइ पुत्रं ॥ २१९॥
*
www.kobatirth.org
*
*
*
*
एतेन कारणेन प्रसन्नं निर्मलं चित्तं यस्य स तेन तथा शुद्धं शीलं यस्य स तेन पुरुषेण एतत् सिद्धचक्रं सम्यक् तपःकर्मविधिपूर्वमाराधनीयं तपःकर्म- आचामाम्लरूपं विधिः-पूजनध्यानादिसम्बन्धी, तत्पूर्वकमित्यर्थः ॥२१६॥ आश्विनश्वेताष्टमीदिनात् - आश्विनसुद्यष्टमीदिवसात् आरभ्य एतस्य - श्रीसिद्धचक्रस्य अष्टविधपूजापूर्वम् - अष्टप्रकारां पूजां विधाय इत्यर्थः, अष्ट दिनानि यावदहो भव्या आचामाम्लानि तपांसि यूयं कुरुत, यद्यपि मूलविधिनाऽष्टमीदिनादारभ्यैतत्तपः * प्रोक्तमस्ति परं साम्प्रतं तु पूर्वाचार्याचरणातः सप्तमीदिनात् क्रियमाणमस्तीति ज्ञेयम् ॥ २१७॥ नवमे दिनेऽस्य - श्रीसिद्धचक्रस्य * पञ्चामृतेन-दधिदुग्धघृतजलशर्करास्वरूपेण स्नपनं कृत्वा च पुनः विस्तरेण पूजां कृत्वा आचामाम्लमेव कर्तव्यम् ॥२१८॥ एवं चैत्रेऽपि कर्तव्यं, तथा तेन प्रकारेण पुनः पुनरष्टाह्निकानां नवकेन आचामाम्लानामेकाशीत्याचामाम्लैरित्यर्थः, एतत्तपः कर्म पूर्णं भवति ॥ २१९॥
*
*
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only