________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
अ अ
hey
हा
५३
*
*
* तत्तो तिजयपसिद्धं, अट्टमहासिद्धिदायगं सुद्धं । सिरिसिद्धचक्कमेअं, आराहह परमभक्तीए ॥२११॥ खंतो दंतो संतो, एयस्साराहगो नरो होइ । जो पुण विवरीयगुणो, एयस्स विराहगो सो उ ॥ २१२॥ तम्हा एयस्साराहगेण एगंतसंतचित्तेणं । निम्मलसीलगुणेणं, मुणिणा गिहिणा वि होयव्वं ॥ २१३॥ * जो होइ दुट्ठचित्तो, एयस्साराहगोवि होऊण । तस्स न सिज्झइ एयं, किंतु अवायं कुणइ नूणं ॥ २१४॥ जो पुण एयस्साराहगस्स उवरिंमि सुद्धचित्तस्स । चिंतइ किंपि विरूवं, तं नूणं होइ तस्सेव ॥ २१५॥
*
**
*
*
*
*
**
www.kobatirth.org
*
*
Acharya Shri Kailassagarsuri Gyanmandir
ततस्तस्मात्कारणात् भो भो भव्याः ! त्रिजगति लोकत्रये प्रसिद्धम्, अणिमाद्यष्टमहासिद्धिदायकं शुद्धं निर्मलम् एतत् श्रीसिद्धचक्रं परमभक्त्या यूयमाराधयत-सेवध्वम् ॥ २११॥ अथैतस्य यः आराधको भवति तत्स्वरूपमाह- क्षान्तः क्षमायुक्तः दान्तो जितेन्द्रियः शान्तो- जितमानसविकारः ईदृशो नरो-मनुष्य एतस्य सिद्धचक्रस्य आराधको भवति, यः पुनः विपरीता गुणा यस्मिन् स विपरीतगुणः कामक्रोधादियुक्त इत्यर्थः, स तु पुमान् एतस्य विराधको भवति ॥ २१२ ॥ तस्मात्कारणात् एतस्याराधकेन मुनिना - साधुना गृहिणा-गृहस्थेनापि च ईदृशेन भवितव्यं कीदृशेन ? इत्येतदाह- एकान्तेन- निश्चयेन शान्तंविकाररहितं चित्तं यस्य स तेन, पुनर्निर्मलः शीलगुणो यस्य स तेन ॥ २१३॥ यः पुमान् एतस्याराधकोऽपि भूत्वा दुष्टं चित्तं यस्य स दुष्टचित्तो भवति तस्य पुंस एतत् श्रीसिद्धचक्रं न सिद्ध्यति, किन्तु नूनं निश्चितम् अपायं-कष्टं करोति ॥ २१४॥ शुद्धं चित्तं यस्य स शुद्धचित्तस्तस्य एतस्याराधकस्य पुंस उपरि कोऽपि दुष्टः किमपि विरूपम्-अशुभं चिन्तयति, तद्विरूपं नूनं-निश्चितं तस्यैव विरूपचिन्तकस्यैव भवति ॥ २१५ ॥
For Private and Personal Use Only