________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
**-*-*-***********************
एयं च सिद्धचक्कं, कहिअं विज्जाणुवायपरमत्थं । नाएण जेण सहसा, सिझंति महंतसिद्धिओ ॥२०७॥ एयं च विमलधवलं, जो झायइ सुक्कझाणजोएण । तवसंजमेण जुत्तो, सो पावइ निज्जरं विउलं ॥२०८॥ अक्खयसुक्खो मुक्खो, जस्स पसाएण लब्भए तस्स । झाणेणं अन्नाओ, सिद्धीओ हुँति किं चुज्जं ॥२०९॥ एयं च परमतत्तं, परमरहस्सं च परममंतं च । परमत्थं परमपयं, पन्नत्तं परमपुरिसेहिं ॥२१०॥
पूर्वादिक्रमेण लिखेत् ॐ इन्द्राय नम इत्यादि, ऊर्ध्वं तु ॐ ब्रह्मणे नमः अधः ॐ नागाय नमः, निजदक्षिणनागकोणे ॐ क्षेत्रपालाय नमः इति लिखेत, अस्य लिखने सम्यग्विधिश्चास्यानायविन्मुखाद्यथालिखितचकाद्वाऽवसेयः॥२०५॥॥२०६॥ एतच्च सिद्धचक्रं विद्यानुवादो-दशमं पूर्वं तस्य परमार्थरूपं- रहस्यभूतमित्यर्थः, येन ज्ञातेन सहसा-सद्यो महत्यः सिद्धयःअणिमाद्याः सिद्धयन्ति ॥२०७॥ एतच्च विमलम्-निर्मलम् अत एव धवलम् -उज्ज्वलं श्रीसिद्धचक्रं यः पुमान् शुक्लध्यानयोगेन -उज्ज्वलध्यानव्यापारेण ध्यायति स विपुलां-विस्तीर्णा निर्जरां प्राप्नोति, बहुकर्मक्षयं करोतीत्यर्थः, कीदृशः सः?-तपःसंयमाभ्यां युक्तः॥२०८॥ अक्षयं सुखं यस्मिन् स ईदृशो मोक्षो यस्य श्रीसिद्धचक्रस्य प्रसादेन प्राणिभिर्लभ्यते तस्य ध्यानेन अन्याः सिद्धयो भवन्ति तत्र किञ्चोद्यं-किमाश्चर्यमित्यर्थः ॥२०९॥ एतच्च परमतत्त्वं-उत्कृष्टं तत्त्वं, च-पुनः परमं रहस्य-गोप्यं, च-पुनः परमो मन्त्रः, पुनः परमार्थः, पुनः परमपदं परमपुस्पैर्भगवद्भिः प्रज्ञप्त-प्ररूपितम् ॥२१०॥
******************************
For Private and Personal Use Only