________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*******
***************
तं विज्जादेविसासण-सुरसासणदेविसेविअदुपासं । मूलगहं कंठणिहिं, चउपडिहारं च चउवीरं ॥२०५॥ दिसिवालखित्तवालेहिं सेविअं धरणिमंडलपइटुं । पूयंताण नराणं, नूणं पूरेइ मणइटुं ॥२०६॥
अथ तमित्यादि गाथायुग्मस्य व्याख्या, तत् - सिद्धचक्रं कर्तृ पूजयतां नराणां नूनं-निश्चितं मनइष्टं-मनसोऽभीष्टं पूरयति, इति द्वितीयगाथान्त्यपादद्वयेन सम्बन्धः, किंविशिष्टं तत् ?-विद्यादेव्यो-रोहिण्याद्याः षोडश, शासनसुरा गोमुखयक्षादयः चतुर्विंशतिः, शासनदेव्यश्चक्रेश्वर्याद्याः चतुर्विंशतिरेव, ततो विद्यादेवीभिःशासनदेवीभिश्च सेवितौ द्वौपाश्वौं-वामदक्षिणौ यस्य तत्, पुनः कीदृशं? 'मूलगहंति मूले-कलशस्य मूले ग्रहाः-सूर्यादयो यस्य तत्, तथा काठे-गलस्थाने निधयो नवसङ्ख्याका नैसर्पकाद्या आगमप्रसिद्धा यस्य तत्, तद्यथा-"नैसर्पः १ पाण्डुकश्चाथ,२ पिङ्गलः ३सर्वरत्नकः ४ । महापद्मः ५ काल ६ महाकालौ, ७ माणव ८ शङ्खको ९ ॥१॥" तथा-चत्वारः प्रतीहारा-द्वारपालाः कुमुदाञ्जनवामनपुष्पदन्ताख्या यस्य तत्तथा,चत्वारो वीरा मणिभद्रपूर्णभद्रकपिलपिङ्गलाख्या यस्य तत्, तत्र विद्यादेव्यः षोडशापि ॐ ह्रीं रोहिण्यै नमः इत्यादि यन्त्रपरितो लिखेत्, तथा शासनसुरान् चक्रस्य दक्षिणदिशि लिखेत्, शासनदेवीः अथ वामदिशि लिखेत्, तथाकलशाकारचक्रस्य मूले पतग्रहाऽधः ॐ आदित्याय नम इत्यादीनि नवग्रहाणां नामानि लिखेत्, काठे च वामदक्षिणतो नवापि कलशान् तदुपरि ॐ नैसर्पकाय नम इत्यादि लिखेत्, तथा चतसृषु दिक्षु क्रमेण कुमुदा-ऽञ्जन-वामन-पुष्पदन्तान् लिखेत् तथा मणिभद्रादींश्चतुरो वीरानपि एवं दिक्षु लिखेत्, "दिसिवाल'त्ति दिक्पालैर्दशभिरिन्द्राग्नियमनैऋतवरुणवायुकुबेरेशानब्रह्मनागनामभिः क्षेत्रपालेन च प्रसिद्धेन सेवितं पुनर्द्धरणीमण्डलप्रतिष्ठं-पृथ्वीपीठे स्थितमित्यर्थः, तत्र दशसु दिक्पालेषु अष्टौ दिक्पालान्
************************
For Private and Personal Use Only