SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ********************************* झायह अडदलवलए, सपणवमायाइए सुवाहते । सिद्धाइए दिसासुं, विदिसासुं दंसणाईए ॥१९७॥ बीअवलयंमि अडदिसि, दलेसु साणाहए सरह वग्गे । अंतरदलेसु अट्ठसु, झायह परमिपिढमपए ॥१९८॥ अथ पीठं लिखित्वा तत्पार्श्वे वृत्तमण्डलं लिखेत्, तदुपरि अष्टदलकमलाकारं वलयं लिखेत्, तत्राष्टदलवलये चतुर्यु दिपत्रेषु प्रणवमायादिवान् स्वाहान्तान् सिद्धादिकान् चतुर्थीबहुवचनान्तान् ध्यायत, प्रणव-ॐकारो माया-हींकारस्तौ आदी येषां ते तान् तथा स्वाहाऽन्ते येषां ते तान्,लिखनविधिः यथा-ॐ ह्रीं सिद्धेभ्यः स्वाहा पूर्वस्यां १, ॐ ह्रीं आचार्येभ्यः स्वाहा दक्षिणस्यां २, ॐ ह्रीं उपाध्यायेभ्यः स्वाहा पश्चिमायां ३, ॐ ह्रीं सर्वसाधुभ्यः स्वाहा उत्तरदिग्दले ४, तथैव विदिक्षु दर्शनादीनि चत्वारि पदानि ध्यायत, तत्तल्लिखनविधिस्त्वयं- ॐ ह्रीं दर्शनाय स्वाहा आग्नेयकोणे १, ॐ ह्रीं ज्ञानाय स्वाहा नैर्ऋत्याम २, ॐ ह्रीं चारित्राय स्वाहा वायव्ये ३, ॐ ह्रीं तपसे स्वाहा ईशानकोणे ४, अनेन क्रमेण लिखेत् एवमष्टदलं प्रथमवलयम् ॥१९७॥ प्रथमवलयबाह्यतो मण्डलाकारं षोडशदलं न्यस्येत्, तत्र द्वितीयवलये अष्टसु एकान्तरितदिग्दलेषु सानाहतान्अनाहतबीजसहितान् अष्टौ वर्गान् अ-क-च-ट-त-प-य-श- रूपान् क्रमेण लिखित्वा यूयं स्मरत, तत्र प्रथमवर्गे षोडश वर्णाः कवर्गादिषु पञ्चसु प्रत्येकं पञ्च पञ्च वर्णाः, अन्तिमवर्गद्वये प्रत्येकं चत्वारो वर्णाः, ततोऽष्टसु वर्गाणामन्तरदलेषु परमेष्ठिपदानि ॐ नमो अरिहंताणमित्येवं रूपाणि ध्यायत, अष्टस्वपि अन्तरदलेषु ॐ नमो अरिहंताणं इत्येवं लिखेदित्यर्थः । एवं द्वितीयवलयम् ॥१९८॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy