________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
********************
तइअवलए वि अडदिसि, दिपंतअणाएहिं अंतरिए । पायाहिणेण तिहिपंतिआहि झाएह लद्धिपए ॥१९९॥ ते पणवबीअअरिहं, नमो जिणाणंति एवमाईआ । अडयालीसं णेआ, संमं सुगुरुवएसेणं ॥२०॥ तं तिगुणेणं माया-बीएणं सुद्धसेयवण्णेणं । परिवेढिऊण परिहीइ, तस्स गुरुपायए नमह ॥२०१॥
तृतीयवलयेऽपि अष्टसु दिक्षु अष्टावनाहतान् लिखेत्, ततो द्वयोर्द्वयोरन्तरे द्वे द्वे लब्धिपदे, एवमष्टस्वप्यन्तरेषु षोडश लब्धिपदानि प्रथमपङ्क्तौ, एवं षोडशैव द्वितीयपङ्क्तौ, एवमेव तृतीयपङ्क्ती, इत्थं दीप्यमानैरष्टभिरनाहतैरन्तरितानिव्यवहितानि प्रादक्षिण्येन तिसृभिः पङ्क्तिभिः-श्रेणिभिरष्टचत्वारिंशल्लब्धिपदानि यूयं ध्यायत ॥१९९॥ते इति प्राकृतत्वानपुंसकस्य पुंस्त्वं, तानि लब्धिपदानि प्रणवः-ॐकारो बीजं-ह्रींकारोऽहमिति सिद्धिबीजम्, एतत्पूर्वकं नमो जिणाणमिति पदं ॐ ह्रीं अर्ह नमो जिणाणं इत्येवमादीनि अष्टचत्वारिंशत्सङ्ख्यानि सम्यक् सुगुरोस्पदेशेन ज्ञेयानि, एतेषां नामानि माहात्म्यानि च लब्धिकल्पादवसेयानि, इह त्वाराधनविधिं विना पुस्तकलिखने दोष इति न लिखितानि ॥२००॥ तत् पीठादि लब्धिपदान्तं त्रिगुणेन शुद्धश्वेतवर्णेन मायाबीजेन-ह्रींकारेण परिवेष्ट्य परितः-समन्ताद्वेष्टयित्वा तस्य परिधौ गुरुपादुका:-गुरुपादन्यासान् यूयं नमत । अत्रायं भावः- सर्वयन्त्रस्योर्ध्वं ह्रींकारं विलिख्य तस्य ईकारात्सर्वयन्त्रपरिक्षेपरूपां रेखां त्रिर्वालयित्वा चतुर्थरखार्धप्रान्ते क्रौं इत्यक्षरं लिखेत्, तस्य च परिधौ अष्टौ गुरुपादुकाः, पादुकाशब्दो यद्यपि नामकोशे उपानद्वाचक उक्तः, तथापि रूढ्या पादन्यासार्थोऽपि बोध्यः, बहुस्थानेषु तथा दर्शनात् ॥२०१॥
**********************
****
For Private and Personal Use Only