________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
अ अ
हा
४७
www.kobatirth.org
*
एएहिं नवपएहिं, सिद्धं सिरिसिद्धचक्कमेअं जं । तस्सुद्धारो एसो, पुव्वायरिएहिं निद्भिट्ठो ॥१९५॥ * गयणमकलिआयंतं, उड्ढाहसरं सनायबिन्दुकलं । सपणवबीआणाहय - मंतसरं सरह पीढंमि ॥ १९६॥
*
*
Acharya Shri Kailassagarsuri Gyanmandir
*
एतैर्नवभिः पदैः सिद्धं-निष्पन्नं यदेतत् श्रीसिद्धचक्रं, तस्य सिद्धचक्रस्य एष उद्धारः पूर्वाचार्यैर्निर्दिष्टः कथितः ॥ १९५॥ अथ ग्रन्थकार एकादशगाथाभिः सिद्धचक्रोद्धारविधिमाह-गयणेत्यादि, अत्र गगनादिसंज्ञा मन्त्रशास्त्रेभ्यो ज्ञेया, तत्र गगनशब्देन ह इत्यक्षरमुच्यते, 'पीढंमि' त्ति मूलपीठे-यन्त्रस्य सर्वमध्ये ह इत्यक्षरं यूयं स्मरत, इह च स्मरणमेवाधिकृतं स्मरणस्याशक्यत्वे * पदस्थध्यानसाधनार्थं मनोज्ञद्रव्यैर्वहिकापट्टादौ लिखनमपि पूर्वाचार्यैराम्नातम्, एवमग्रेऽप्युह्यं, तत्रादौ हकाराक्षरं लेखनीयमिति * प्रकृतं, तत्कीदृशम् ? इत्याह- अस्य - अकाराक्षरस्य कलिका-व्याकरणसंज्ञामयी वक्रा '5' इत्यक्षररूपा, तयाऽवन्तं- सहितम्, आदौ * कलिकया युक्तं, ततः 'ऽहू' इति स्यात्, पुनः तद् गगनबीजं कीदृशम् ? ' उड्डाहसरं ' उर्ध्वाधः सह रेण - रकारेण वर्तते * इति सरं, हकास्योर्ध्वमधश्व रकारो दीयते, ततः 'हूँ' इति जातं, पुनः कीदृशं तत् ? 'सनादबिन्दुकलं' नादोऽर्धचन्द्राकारोऽक्षरस्योपरि अनुनाशिकः, बिन्दुकला च पूर्णोऽनुस्वारः, ततो नादश्च बिन्दुकला च ताभ्यां सहितं, ततः 'हूँ" इति जातं, पुनः कीदृशं ? 'सपणवबीयाणाहयं प्रणवः- ॐकारः, बीजं ह्रींकारः अनाहतं च कुण्डलाकारं, ततश्च द्वन्द्वः, तैः सहितम्, आत्राभ्नायः * 'अहूँ इति बीजं ॐकारोदरे न्यस्येत्, एतच्च बीजद्वयं ह्रींकारोदरे न्यस्येत्, ततश्च ह्रींकारस्येकारस्वरात् रेखां पञ्चाद् वालयित्वा * द्विःकुण्डलाकारेणाऽनाहतेन तद् बीजत्रयमपि वेष्टयेत्, पुनः कीदृशम् ? 'अन्त्यस्वरम्' अन्त्ये स्वराः अ आ इ ई उ ऊ ऋ ॠ * लृ लृ ए ऐ ओ औ अं अः एते षोडश यस्य तत्, पूर्वोक्तस्य सर्वतः स्वरान् न्यस्येदित्यर्थः इत्येतावत् कर्णिकायां ध्येयम् ॥१९६॥
*
For Private and Personal Use Only