________________
Shri Mahavir Jain Aradhana Kendra
वा
सि
रि
तहवि अणवज्जमेगं, समत्थि आराहणं नवपयाणं । इहलोइअपारलोइअ -सुहाण मूलं जिणुद्दिट्ठ ॥ १९०॥ * अरिहं सिद्धायरिआ, उज्झाया साहूणो य सम्मत्तं । नाणं चरणं च तवो, इअ पयनवगं परमतत्तं ॥१९१॥ * एएहिं नवपएहिं, रहिअं अन्नं न अत्थि परमत्थं । एएसुच्चिअ जिणसासणस्स सव्वस्स अवयारो ॥ १९२॥ किर सिद्धा सिज्झति जे अ जे आवि सिज्झइस्संति । ते सव्वेवि हु नवपय-झाणेणं चेव निब्धंतं ॥ १९३॥ * एएसिं च पयाणं, पयमेगयरं च परमभत्तीए । आराहिऊण णेगे, संपत्ता तिजयसामित्तं ॥ १९४॥
सि
रि
$31
ल
क
हा
ले
४६
www.kobatirth.org
*
*
Acharya Shri Kailassagarsuri Gyanmandir 本
*
तथापि एकं नवपदानामाराधनम् अनवद्यं-निर्दोषं समस्ति विद्यते कीदृशं तत् ? - ऐहलौकिकपारलौकिकसुखानां - * इहभव-परभवसौख्यानां मूलं-मूलकारणं, पुनः कीदृशम् ? - जिनेन भगवता उद्दिष्टं कथितम् ॥ १९०॥ नवपदनामान्याह-अर्हन्तः
१ सिद्धाः २ आचार्याः ३ उपाध्यायाः ४ साधवः ५ च पुनः सम्यक्त्वं ६ ज्ञानं ७ चरणं चारित्रं ८ च पुनः तपः ९ * इत्येतत्पदानां नवकं परमतत्त्वं वर्त्तते ॥१९१॥ एतैः नवभिः पदै रहितो - वर्जितोऽन्यः परमार्थस्तात्त्विकोऽर्थो नास्ति, एतेष्वेव* नवत्रदेषु सर्वस्य जिनशासनस्य - जिनमतस्य अवतारः - अवतरणमस्ति ॥ १९२॥ किलेति निश्चितं, ये जीवा अतीते काले सिद्धाः * * - मुक्तिं गताः, ये च वर्तमानकाले सिद्ध्यन्ति ये चापि अनागते काले सेत्स्यन्ति-सिद्धिं यास्यन्ति हुः पादपूरणे, ते सर्वेपि निर्भ्रान्तंनिस्संदेहं नवपदध्यानेनैव, न तु तद्व्यतिरेकेणेत्यर्थः ॥ १९३॥ च पुनः एतेषां पदानां मध्यात् एकतरम् - अन्यतममेकं पदं परमभक्त्या आराध्य-संसेव्य अनेके जीवाः त्रिजगत्स्वामित्वं सम्प्राप्ताः सकलकर्मक्षयेण त्रिभुवनस्वामिनो जाता इत्यर्थः ॥१९४॥
For Private and Personal Use Only
*