________________
Shri Mahavir Jain Aradhana Kendra
*
*
सि
*
*
रि
भणिअं च तीइ सामिअ, फिट्टिस्सइ एस तुम्ह तणुरोगो । जेणेसो संजोगो, जाओ जिणवरकयपसाओ ॥ १८१ ॥ * तत्तो मयणा पइणा, सहिआ मुनिचंदगुरुसमीवंमि । पत्ता पमुइअचित्ता, भत्तीए नमइ तस्स पए ॥१८२॥ * गुरूणो य तया करुणापरित्तचित्ता कहंति भवियाणं । गंभीरसजलजलहर - सरेण धम्मस्स फलमेवं ॥१८३॥ सुमाणुसत्तं सुकुलं सुरूवं, सोहग्गमारुग्गमतुच्छमाउ । रिद्धिं च विद्धिं च पहुत्तकित्ती, पुन्नप्पसाएण लहंति सत्ता ॥ १८४ ॥
सि
*
रि
वा
ल
क
हा
४४
www.kobatirth.org
*
*
*
Acharya Shri Kailassagarsuri Gyanmandir
*
च - पुनः तया-मदनसुन्दर्या भणितं हे स्वामिन् ! एष युष्माकं तनुरोगो-देहव्याधिः 'फिट्टिस्सइ'त्ति अपयास्यति, येन * कारणेन एष संयोगो जिनवरेण ऋषभस्वामिना कृतः प्रसादो यस्मिन् स ईदृशो जातोऽस्ति, तेन ज्ञायते इत्यर्थः ॥ १८१ ॥ ततस्तदनन्तरं मदनसुन्दरी पत्या स्वभर्ता सहिता मुनिचन्द्राख्यगुरूणां समीपे प्राप्ता, तदा प्रमुदितं हृष्टं चित्तं यस्या सा तथाविधा सती भक्त्या तस्य-गुरोः पादौ चरणौ नमति ॥१८२॥ तदा तस्मिन्काले करुणया-कृपया परीतं व्याप्तं चित्तं येषां ते तथाविधा * गुरवश्च भव्यजीवानां पुरस्तात् सजलो-जलभृतो यो जलधरो-मेघस्तद्वद् गम्भीरो यः स्वरस्तेन एवं वक्ष्यमाणप्रकारेण धर्म्म * फलं कथयन्ति ॥ १८३ ॥ कथमित्याह- सुष्ठु-शोभनं मानुषत्वं तत्रापि सुकुलम् उत्तमं गोत्रं, तत्र पुनः शोभनं रूपमाकृतिः पञ्चेन्द्रियपटुतेत्यर्थः, तत्रापि सौभाग्यं सर्वजनवल्लभत्वं, तथा आरोग्यं-नीरोगता, पुनः अतुच्छं प्रचुरं आयुर्जीवितं तथा ऋद्धिसम्पदं, च- पुनः वृद्धिं पुत्रादिपरिवाररूपां तथा प्रभुत्वं-स्वामित्वं, कीर्तिर्यशः, प्रभुत्वं च कीर्तिश्च प्रभुत्वकीर्त्ती ते, एतानि वस्तूनि सत्त्वाः - प्राणिनः पुण्यप्रसादेन धर्म्मप्रभावाल्लभन्ते-प्राप्नुवन्ति ॥१८४॥
*
For Private and Personal Use Only
*