________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
स
रि
अ अ श्र
हा
४३
*
*
*
*
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इअ रिसहजिणेसर भुवणदिणेसर, तिजयविजयसिरिपाल पहो ! ।
मयणहिअ सामिअ सिवगइगामिअ, मणह मणोरह पूरिमहो ॥१७८॥
एवं समाहिलीणा, मयणा जा थुणइ ताव जिणकंठा । करठिअफलेण सहिआ, उच्छलिआ कुसुमवरमाला ॥ १७९॥ मयणावयणाओ उंबरेण सहसत्ति तं फलं गहिअं । मयणाइ सयं माला, गहिया आणंदिअमणाए ॥१८०॥
*
*
*
इत्युक्तप्रकारेण हे ऋषभजिनेश्वर ! हे भुवनदिनेश्वर ! भुवने-लोकेदिनेश्वरः - सूर्य इव, भुवन०, तत्सं० पुनस्त्रिजगतो- * जगत्त्रयस्य या विजयश्रीः- विजयलक्ष्मीस्तां पालयतीति त्रि० श्रीपालस्तत्सं० हे त्रिजग०, हे प्रभो ! पुनः हे मदनाहितः मदनःकामस्तस्याऽहितः -शत्रुः, हे स्वामिन् ! हे शिवगतिगामिन् मम मनसो मनोरथान्- अभिलाषान् पूरय इति तात्पर्यार्थः, पुनरयं तिजयविजयेत्यादि - त्रिजगति विजयो यस्य स त्रिजगद्विजयः, श्रीपालस्य प्रभुः श्रीपालप्रभुस्तत्सं०, तथा 'मयणाहिय "त्ति * मदनसुन्दर्या हितो - हितकारी तत्संबो० इति ॥ १७८॥ एवममुना प्रकारेण समाधौ चित्तैकाग्रये लीना-मग्ना मदनसुन्दरी यावत् * स्तौति तावत् जिनस्य-भगवतः कण्ठात् करस्थितबीजपूरकादिफलेन सहिता कुसुमानां-पुष्पाणां वरा-प्रधाना माला उच्छलता ॥१७९॥ तदा मदनसुन्दरीवचनात् उम्बरराजेन सहसा सद्यस्तत्फलं गृहीतम्, इति पादपूरणे, तथा आनन्दितं मनो यस्याः सा आनन्दितमनास्तया तादृश्या मदनसुन्दर्या स्वयमात्मना माला गृहीता ॥ १८०॥
*
For Private and Personal Use Only