________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
अ अ
हा
४२
*
*
*
www.kobatirth.org
सायरसमसमयामयनिवास, वासवगुरु गोयरगुणविकास । कासुज्जलसंजमसीललील, लीलाइ विहिअमोहावहील ॥१७६॥ हीलापरजंतुसु अकयसाव, सावयजणिअआणंदभाव । भावलयअलंकिअ रिसहनाह, नाहत्तणु करि हरि दुक्खदाह ॥ १७७॥
Acharya Shri Kailassagarsuri Gyanmandir
पुनः सागरसमः- समुद्रतुल्यः समता एव अमृतं पीयूषं तस्य निवासः सागरसमसमतामृतनिवासस्तत्सम्बोधने हे सागरसमसमतामृतनिवास !, पुनः वासवः - इन्द्रस्तस्य गुरुर्लोकोक्त्या बृहस्पतिस्तस्य गोचरो-विषयभूतो गुणानां विकासोविस्तारो यस्य सः, तत्सम्बोधने हे वासव० !, पुनः कासस्तृणविशेस्तद्वत् उज्ज्वला संयमशीलयोः- चारित्रस्वभावयोर्लीला-क्रीडा यस्य सः, तत्सम्बोधने हे का० !, पुनः लीलया-लीलामात्रेण विहिता- कृता मोहस्य- मोहनीयकर्म्मणोऽवहीला अनादरो येन सः तत्सं॰ हे० !१७६॥ पुनः हीला-हीलनमेव परा-प्रधानं येषां ते हीलापरा एवंविधा ये जन्तवो-जीवास्तेषु न कृतः शाप - आक्रोशो येन सः तत्सं० हे०, पुनः श्रावकजनानां जनित-उत्पादित आनन्दभाव - आनन्दोदयो येन स श्रावक०, तत्सम्बोधने हे श्रावक०, पुनः भा-प्रभा तस्या वलयं मण्डलं तेन अलंकृतः- शोभितः, तत्सं ० हे भा०, पूर्वोक्तविशेषणविशिष्ट हे ऋषभनाथ ! नाथत्वं कुरु, मम योगक्षेमकृद् भवेत्यर्थः, तथा मम दुःखदाहं हर दूरीकुरु इत्यर्थः ॥ १७७॥
For Private and Personal Use Only
*