________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
****
***
**
*
भत्तिभरनमिरसुरिंदवंद-वंदिअपय पढमजिणंदचंद । चंदुज्जलकेवलकित्तिपूरपूरियभुवणंतरवेरिसूर ॥१७४॥ सूरुब्ब हरिअतमतिमिर देव देवासुरखेयरविहिअसेव ।
सेवागयगयमयरायपायपायडियपणामह कयपसाय ॥१७५॥ भक्तिभरण-भक्तिप्रकर्षेण नम्राणि-नमनशीलानि यानि सुरेन्द्रवृन्दानि-देवेन्द्रसमूहास्तैर्वन्दितौ पादौ-चरणौ यस्य सः, तत्सम्बोधने हे भक्तिभर०!, पुनर्हे प्रथमजिनेन्द्र ! चन्द्र इव चन्द्र आह्लादकः, पुनश्चन्द्रवत् उज्ज्वलो-धवलः केवलः सम्पूर्णो यः कीर्तिपूरो-यशःसमूहस्तेन पूरितं-भरितं भुवनं-लोकत्रयं येन सः, तत्सम्बुद्धौ चन्द्रोज्ज्व०, पुनः आन्तरा-मध्यवर्त्तिनो ये वैरिणः-कामक्रोधादयस्तेषां जये शूरस्तत्सम्बोधने हे०॥ १७४॥ पुनः सूरः- सूर्यः स इव हृतं-दूरीकृतं तमोऽज्ञानमेव तिमिरम्अन्धकारं येन स तत्सम्बुद्धौ हे हृततमस्तिमिर !, हे देव !, पुनः देवाः-वैमानिकादयो असुरा-भवनपत्यादयः खेचराविद्याधरास्तैर्विहिता-कृता सेवा यस्य सः, तत्सम्बोधने हे देवा०!, सेवार्थमागताः -सेवागताः, गतो मदो येषां ते गतमदाः - परित्यक्ताहंकारा इत्यर्थः, एवंविधा ये राजानस्तैः पादयोः प्रकटितः प्रणामो-नमस्कारो यस्य सः, तत्सम्बोधने हे सेवा०, पुनः कृतः प्रसादो येन सः, तत्सम्बोधने हे कृतप्रसाद! ॥१७५॥
**
**
*-*-*-*-***
*
For Private and Personal Use Only