________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
***-*-*-*-*-*-***************
ता सामिअ ! आमरणं, मह सरणं तंसि चेव नो अन्नो । इअ निच्छियं वियाणह, अवरं जं होइ तं होउ ॥१७॥ एवं तीए अइनिच्चलाइ दढसत्तपिक्खणनिमित्तं । सहसा सहस्सकिरणो, उदयाचलचूलिअं पत्तो ॥१७॥ मयणाए वयणेणं, सो उंबरराणओ पभायंमि । तीए समं तुरंतो, पत्तो सिरिरिसहभवणंमि ॥१७२॥ आणंदपुलइअंगेहि, तेहिं दोहिवि नमंसिओ सामी । मयणा जिणमयनिउणा, एवं थोउं समाढत्ता ॥१७३॥
तस्मात् हे स्वामिन् ! आमरणम्-मरणपर्यन्तं मम त्वमेव शरणम्-आश्रयोऽसि, अन्यो न कश्चित् शरणम्, इत्येतत् निश्चितं- निश्चययुक्तं यूयं विजानीत, अपरम्-अन्यत् यद्भवति तद्भवतु ॥१७०॥ एवमुक्तप्रकारेण अतिनिश्चलायास्तस्यामदनसुन्दर्या यत् दृढं सत्त्वं-धैर्घ्यं तस्य प्रेक्षणनिमित्तं-दर्शनार्थं सहसाऽकस्मात् सहस्रकिरणः - सूर्यः उदयाचलस्य-निषधपर्वतस्य चूलिकां शिखां प्राप्तः, सूर्य उदित इत्यर्थः॥१७१॥ ततो मदनसुन्दर्या वचनेन स उम्बरराजः प्रभाते-प्रातःकाले तया स्वस्त्रिया सम-सह त्वरमाणः-उत्तालः सन् श्रीऋषभदेवस्य-जिनराजस्य भवने-मन्दिरे प्राप्तः ॥१७२॥ आनन्देन हर्षेण पुलकितंरोमोद्गमयुक्तं अङ्गं शरीरं ययोस्तौ ताभ्यां तथोक्ताभ्यां वधूवराभ्यां द्वाभ्यामपि श्री ऋषभस्वामी नमस्थितो-नमस्कृतः, अथ जिनमतविषये निपुणा-दक्षा मदनसुन्दरी एवं-वक्ष्यमाणप्रकारेण स्तोतुं-स्तुतिं कर्तुं समारब्धा-प्रारम्भं कृतवती, लग्नेति यावत् ॥१७३॥
For Private and Personal Use Only