________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
&
*
******
*******************************
कारिअसुरसुंदरिसिणगारं, सिंगारिअअरिदमणकुमारं । हथलेवइ मंडलविहिचंगं, करमोयणकरिदाणसुरंग ॥१५८॥ एवं विहिअविवाहो,अरिदमणो लद्वहयगयसणाहो । सुरसुंदरीसमेओ, जा निग्गच्छइ पुरवरीओ ॥१५९॥ ता भणइ सयललोओ, अहो ! ऽणुरूवो इमाण संजोगो । धन्ना एसा सुरसुंदरी य जीए वरो एसो ॥१६०॥ केवि पसंसंति निवं, केवि वरं केवि सुंदरिं कन्नं । केवि तीऍ उज्झायं, केवि पसंसंति सिवधम्मं ॥१६१॥
तथा कारितः सुरसुन्दर्याः कन्यायाः शृङ्गारो यत्र तत्, पुनः शृङ्गारितोरिदमनकुमारो यत्र तत्, पुनः पाणिग्रहणसमये ब्राह्मणेन क्रियमाणो यो मण्डलविधिोकप्रसिद्धस्तेन चङ्गरम्यं, तथा करमोचने - हस्तमोचनसमये राज्ञा कृतं हस्त्यश्वादिदानं तेन सुरङ्गम् ॥१५८॥ एवमुक्तप्रकारेण विहितः-कृतो विवाहो यस्य स तथा, लब्धाः -प्राप्ता ये हया-अश्वा गजाश्च-हस्तिनस्तैः सनाथः-सहितः, पुनः सुरसुन्दर्या-निजस्त्रिया समेतो-युक्तोऽरिदमनकुमारो वर्याः पुर्या यावदुज्जयिनीतो निर्गच्छति ॥१५९॥ तावत् सकलोऽपि नगरलोको भणति, अहो ? इति आश्चर्येऽनयोः-कुमारकन्ययोरनुरूपो-योग्यः संयोगः-सम्बन्धः सजात इति शेषः, च - पुनः एषा सुरसुन्दरीकन्या धन्यास्ति यस्या एषोऽरिदमनकुमारो वरो-भर्ता जातः ॥१६०॥ पुनः तदवसरे केऽपि लोकाः राजानं प्रशंसन्ति, केपि वरं-कुमारं प्रशंसन्ति, केपि सुरसुन्दरी कन्यां प्रशंसन्ति, केपि लोकास्तस्याः-कन्याया उपाध्यायं-गुरुं प्रशंसन्ति, केपि पुनः शिवधर्मं प्रशंसन्ति ॥१६१॥
********************
For Private and Personal Use Only