________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
सुरसुन्दरिसम्माणं, मयणाइ विडंबणं जणो दर्छ । सिवसासणप्पसंसं, जिणसासणनिंदणं कुणइ ॥१६२॥ इओ य-निअपेडयस्स मज्झे, रयणीए उंबरेण सा मयणा । भणिआ भद्दे ! निसुणसु, इमं अजुत्तं कयं रत्ना ॥१६३॥ तहवि न किंपि विणळं, अज्जवि तं गच्छ कमवि नररयणं । जेणं होइ न विहलं, एयं तुह रूवनिम्माणं ॥१६४॥ इअ पेडयस्स मज्झे, तुज्झवि चिटुंतिआइ नो कुसलं । पायं कुसंगजणिअं, मज्झवि जायं इमं कुठं ॥१६५॥
तस्मिन्नवसरे सुरसुन्दUः सन्मानं-सत्कारं दृष्ट्वा मदनसुन्दर्यास्तु विटम्बनां दृष्ट्वा जनो-बहिर्दृष्टिर्लोकः शिवशासनस्यशिवमतस्य प्रशंसां करोति, जिनशासनस्य निन्दनं-निन्दां करोति ॥१६२॥ इतश्च-इतः परमित्यर्थः, निजपेटकस्यनिजसमुदायस्य मध्ये रजन्यां-रात्रौ उम्बरेण- उम्बरराजेन सा मदनसुन्दरी भणिता-उक्ता, मदनसुन्दर्य इदमुक्तमित्यर्थः, किमित्याह - हे भद्रे! - हे शोभने! त्वं श्रुणु, राज्ञा-त्वत्पित्रा इदमयुक्तं कृतं यन्मह्यं विनष्टाङ्गाय त्वं प्रदत्तेति भावः॥१६३॥ तथापि किमपि विनष्टं नास्ति, अद्यापि त्वं कमपि नररत्न-पुरुषश्रेष्ठं प्रति गच्छ-अन्यं नीरु कपुर स्वीकुरु इत्यर्थः, येन एतत्तव रूपस्य निर्माणं-रचनं विफलं-निष्फलं न भवेत् ॥१६४॥ इहास्मिन् पेटकस्य-समुदायस्य मध्ये तिष्ठन्त्यास्तवापि कुशलं-शुभं नास्ति,कथमित्याह-(प्रायो बाहुल्येन) कुसङ्गेन जनितम्-उत्पादितं ममापि इदं कुठं जातं तन्मा कदाचित् तवापि भवेदिति भावः . ॥१६५॥
***************
-
-
For Private and Personal Use Only