SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir इत्तो रन्ना सुरसुंदरीइ वीवाहणत्थमुज्झाओ। पुट्ठो सोहणलग्गं, सो पभणइ राय ! निसुणेसु ॥१५१॥ अज्जं चिय दिणसुद्धी, अत्थि परं सोहणं गयं लग्गं । तइया जइया मयणाइ, तीइ कुट्ठिअकरो गहिओ ॥१५२॥ राया भणेइ हुं हुं, नाओ लग्गस्स तस्स परमत्थो । अहुणावि हु निअधूयं, एयं परिणावइस्सामि ॥१५३॥ रायाएसेण तओ, खणमित्तेणावि विहिअसामग्गिं । मंतीहिं पहिछेहिं, विवाहपव्वं समाढत्तं ॥१५॥ तं च केरिसं ? ऊसिअतोरणपयडपडायं, वज्जिरतूरगहीरनिनायं । नच्चिरचास्रवलासिणिघट्ट, जयजयसद्दकरंतसुभट्टं ॥१५५ इतः परं राज्ञा सुरसुन्दर्या द्वितीयपुत्र्या विवाहकरणार्थमुपाध्यायोऽध्यापकः शुभलग्नं पृष्टस्तदा स प्रभणति-वदति, हे राजन् त्वं श्रुणु ॥ १५१॥ अद्यैव दिनशुद्धिरस्ति,इदं सम्पूर्णमपि दिनं शुद्धमस्तीत्यर्थः, परं केवलं शोभनं लग्नं तु तदा गतं यदा तया मदनसुन्दO कुष्ठिकस्य उम्बरराजस्य करो गृहीतः॥१५२॥ हुं हुं इत्यनादरे, ततो राजाऽनादरेण भणति,ज्ञातस्तस्य लग्नस्य परमार्थो यत्तया कुठी परिणीत इति भावः, अधुनापि च - साम्प्रतमपि च एतां निजपुत्रीं परिणापयिष्यामि ॥१५३॥ ततस्तदनन्तरं राजादेशेन-नृपाज्ञया प्रहृष्टैर्हर्षपूरितैर्मन्त्रिभिरमात्यैः विवाहपर्व - विवाहोत्सवः समारब्धं-प्रारब्धं, कीदृशं विवाहपर्व ? क्षणमात्रेणापि विहिता-कृता सामग्री यस्य तत् विहितसामग्रि ॥१५४॥ तच्च विवाहपर्व कीदृशं ?-तदाहउच्छ्रितेषु-ऊर्वीकृतेषु तोरणेषु प्रवृत्ताः पताका-ध्वजा यत्र तत् तथोक्तं, पुनर्वाद्यमानानि यानि तूरा(या)णि-वादित्राणि तेषां गम्भीरो निनादो - ध्वनिर्यत्र तत्तथोक्तं, तथा नृत्यन्-नृत्यं कुर्वन् चारु - मनोज्ञानाम् विलासिनीनां-विलासवत्स्त्रीणां For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy