________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*******
**************************
तं वेसरिमारोविअ, जा चलिओ उंबरो निअयठाणं । ता भणइ नयरलोओ, अहो अजुत्तं अजुत्तंति ॥१४६॥ एगे भणंति धिद्धी, रायाणं जेणिमं कयम जुत्तं । अन्ने भणंति धिद्धी, एयं अइदुब्बिणीयंति ॥१४७॥ केवि निंदंति जणणिं, तीए निंदंति केवि उवज्झायं केवि निंदंति दिवं, जिणधम्म केवि निंदंति ॥१४८॥ तहवि हु वियसियवयणा, मयणा तेणुंबरेण सह जंति । न कुणइ मणे विसायं, सम्मं धम्मं वियाणंती ॥१४९॥ उंबरपरिवारेणं, मिलिएणं हरिसनिब्भरंगेणं । निअपहुणो भत्तेणं, विवाहकिच्चाई विहियाइं ॥ १५०॥
तदनन्तरं स उम्बरो राजा तां कुमारी वेसरीमश्वतरीमारोप्य यावन्निजकंस्थानं प्रति चलितः, तावन् नगरलोक इतिइत्थं भणति, किमित्याह- अहो अयुक्तम् अयुक्तमिदं कार्यमिति शेषः॥१४६॥ तस्मिन्नवसरे एके-केचिल्लोका भणन्ति राजानं धिक धिक्-धिक्कारोऽस्तु इत्यर्थः, राज्ञा इदमयुक्तं कार्यं कृतम्, अन्ये पुनर्लोका इति भणन्ति, एतामतिदुर्विनीतां कन्यां धिक् धिक् यया पितुर्वचनं नाङ्गीकृतमित्यर्थः ॥ १४७॥ पुनस्तदा केपि लोकास्तस्याः कन्याया जननीं -मातरं निन्दन्ति, केपि तस्या उपाध्यायं- पाठकं निन्दन्ति, केपि दैवं - भाग्यं निन्दन्ति, केपि पुनर्जिनधर्म निन्दन्ति ॥१४८॥ 'हु' इति निश्चितं, तथापि मदनसुन्दरी कन्या विकसितं-विकस्वरं वदनं- मुखं यस्याः सा एवम्भूता सती तेन उम्बरेण सह यान्ती-गच्छन्ती मनसि विषादं न करोति, अत्र हेतुगर्भ विशेषणमाह- कीदृशी सा ? यतः सम्यक्धर्मं विजानन्ती ॥१४९॥ ततो मिलितेन उम्बरपरिवारेण विवाहकृत्यानि-विवाहकार्याणि विहितानि-कृतानि कीदृशेन उम्बरपरिवारेण ? -हर्षनिर्भराङ्गेन- हर्षेण निर्भरं-भृतमङ्गं यस्य स तेन, पुनः कीदृशेन? निजप्रभोः-स्वस्वामिनो भक्तेन ॥१५०॥
*************
For Private and Personal Use Only