________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
**
*
*
*
**
**
****************************
तं सोऊणं बाला, उद्वित्ता झत्ति उंबरस्स करं । गिण्हइ निययकरेणं, विवाहलग्गंव साहंती ॥१४२॥ सामंतमंतिअंतेउरीउ वारंति तहवि सा बाला । सरयससिसरिसवयणा, भणइ सई सुच्चिअ पमाणं ॥१४३॥ एगत्तो माउलओ, एगत्तो रुप्पसुंदरी माया । एगत्तो परिवारो, रुयइ अहो केरिसमजुत्तं ? ॥१४४॥ तहवि न नियकोवाओ, वलेइ राया अईव कढिणमणो । मयणावि मुणियतत्ता, निअसत्ताओ न पचलेइ ॥१४५॥
तन्नृपवचः श्रुत्वा मदनसुन्दरी बाला-कन्या तु उत्थाय झटिति-शीघ्रं निजकरण-स्वहस्तेन उम्बरराजस्य करं गृह्णाति, किं कुर्वतीव ? विवाहलग्नं साधयन्तीव ॥१४२॥ सामन्ताः मन्त्रिणः अन्तःपुर्योऽन्तःपुरनार्यश्च वारयन्ति, तथापि सा बाला शरच्छशिसदृशवदना - शरच्चन्द्रतुल्यमुखी सती भणति, मम एष एव वरः प्रमाणं, नान्येन कार्यमित्यर्थः ॥१४३॥ तस्मिन्नवसरे एकतः-एकस्यां दिशि मदनसुन्दर्या मातुलो-मातृभाता पुण्यपालो रोदिति, एकस्यां दिशि रूप्यसुन्दरीमाता रोदिति, तथा एकतः परिवारस्तत्परिकरो रोदिति, अहो! इदं कीदृशमयुक्तं कार्यं जातमिति चिन्तयन्तस्ते सर्वे रुदन्तीत्यर्थः ॥१४४॥ तथापि राजा निजकोपात्-स्वकृतक्रोधान्न वलते-न निवर्तते इत्यर्थः, कीदृशो राजा? अतीव-अत्यन्तं कठिनं-कठोरं मनो यस्य स कठिनमनाः, मदनसुन्दर्यपि च निजसत्त्वात्स्वधैर्यान्न प्रचलति । कीदृशी सा ? मुणितं-ज्ञातं तत्त्वं यया सा मुणिततत्त्वा ॥१४५॥
*****
*****
*
**
*
For Private and Personal Use Only