________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
********************
सहसा वलिऊण तओ, नियआवासंमि आगओ राया । बुल्लावइ तं मयणासुंदरीनामं नियं धूयं ॥१३२॥ हुं अज्जवि जइ मन्नसि, मज्झ पसायस्स संभवं सुक्खं । ता उत्तमं वरं ते, परिणाविय देमि भूरि धणं ॥१३३॥ जइ पुण नियकम्मं चिय,मन्नसि ता तुज्झ कम्मणाणीओ । एसो कुट्ठिअराणो, होउ वरो किं वियप्पेण ? ॥१३४॥ हसिऊण भणइ बाला,आणीओ मज्झ कम्मणा जो उ । सो चेव मह पमाणं, राओ वा रंकजाओ वा ॥१३५॥ कोवंधेणं रन्ना, सो उंबरराणओ समाहूओ । भणिओ य तुममिमीए,कम्माणीओसि होसु वरो ॥१३६॥
सहसाऽकस्मात्ततस्तस्मात् स्थानात् वलित्वा राजा निजावासे-स्वमन्दिरे आगतः, आगत्य च तांमदनसुन्दरीनाम्नी निजां पुत्रीमाह्वयति ॥१३२॥ आहूय च किं कथयतीत्याह - हुं इत्यनादरे अरे ! त्वमद्यापि यदि मम प्रसादसम्भवं - मत्प्रसादोत्पन्न सुखं मन्यसे तत्तर्हि ते-तुभ्यं उत्तम-प्रधानं वरं-भर्तारंपरिणाय्य भूरि-प्रचुरंधनं ददामि-प्रयच्छामि ॥१३३॥ यदि पुनर्निजकम्मैव त्वं मन्यसे तत्तर्हि तव कर्मणा आनीत एष कुष्ठिकराजो वरो भवतु, किं विकल्पेन ? इह विकल्पस्य-विचारस्य किमपि कार्य नास्तीत्यर्थः ॥१३४॥ एतन्नृपवचः श्रुत्वा मदनसुन्दरीबाला हसित्वा भणति, यो मम कर्मणा आनीतः स एव वरो मम प्रमाणं राजा वा भवतु रङ्कजातो-रङ्कपुत्रो वा भवतु ॥ १३५॥ एतत्कन्यावचः श्रुत्वा कोपान्धेन राज्ञा स उम्बरराजः समाहूतःस्वसमीपदेशे आकारितो भणितश्च । किं भणित इत्याह- त्वम् अस्याः कर्मणा आनीतोऽसि तेन त्वम् अस्या वरो भव ॥१३६॥
******************
****
For Private and Personal Use Only