________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
तो भणइ रायमंती, अहो अजुत्तं विमग्गिअं तुमए । को देइ नियं धूयं, कुटुकिलिट्ठस्स जाणतो?॥१२७॥ गलिअंगुलिणा भणियं, अम्हेहिं सुया निवस्सिमा कित्ती । जं किर मालवराया, करेइ नो पत्थणाभंगं ॥१२८॥ तो सा निम्मलकित्ती, हारिज्जउ अज्ज नरवरिंदस्त । अहवा दिज्जउ कावि हु, धूया कुकुलेवि संभूया ॥१२९॥ पभणेइ नरवरिंदो, दाहिस्सइ तुम्ह कन्नगा एगा । को किर हारइ कित्तिं, इत्तियमित्तेण कजेण ?॥१३०॥ चिंतेइ मणे राया, कोवानलजलियनिम्मलविवेगो। नियधूयं अरिभूयं, तं दाहिस्सामि एयस्स ॥ १३१॥
ततो राजमन्त्री भणति, अहो ! त्वयाऽयुक्तं विमार्गितं, कुष्ठरोगेण क्लिष्टाय-क्लेशयुक्ताय पुरुषाय जानन् सन् कः पुमान् निजां पुत्रीं ददाति ? अपि तु न कोऽपि ददातीत्यर्थः ॥१२७॥ एतन्नृपमन्त्रिवचः श्रुत्वा गलिताङ्गलिमन्त्रिणा भणितम्अस्माभिर्नृपस्य इयं कीर्तिः श्रुताऽभूत् यत् किल मालवदेशस्य राजा प्रार्थनाभङ्गं न करोति,यः कोऽपि यद्वस्तु याचते तस्मै तद्ददातीत्यर्थः ॥१२८॥ ततस्तस्मात्कारणात् अद्य नरवरेन्द्रस्य सा निर्मलकीर्तिर्हार्यताम्, अथवा कापि कुकुलेऽपि सम्भूताकुत्सितकुलेऽप्युत्पन्ना कन्या दीयताम् ॥१२९॥ तदा नरवरेन्द्रो राजा प्रभणति-कथयति स्म युष्मभ्यमेका कन्यका ऽस्माभिर्दास्यते, किल - निश्चितम् एतावन्मात्रेण कार्येण कः स्वकीयां कीर्ति हारयति ? ॥१३०॥ कोपानलेन-कोधाग्निना ज्वलितो निर्मलो विवेको यस्य स एवंविधः सन् राजा मनसि चिन्तयति, किमित्याह- अहं ताम् अरिभूतां-शत्रुतुल्यां निजकन्यामेतस्मै कुष्ठिने दास्यामि ॥१३१॥
For Private and Personal Use Only