________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*****************************
जा तं करेइ मंती, गलिअंगुलिनामओ दुयं ताव । नरवरपुरओ ठाउं,एवं भणिउं समाढत्तो ॥१२२॥ सामि! अम्हाण पहू, उंबरनामेण राणओ एसो । सब्वत्थ वि मन्निज्जइ, गरुएहिं दाणमाणेहिं ॥१२३॥ तेणऽम्हाणं धणकणयचीरपमुहेहिं कीरइ न किंपि । एअस्स पसायेणं, अम्हे सब्वेवि अइसुहिणो ॥१२४॥ किंच-एगो नाह! समस्थि, अम्ह मणचिंतिओ विअप्पुत्ति । जइ लहइ राणओ राणियंति ता सुंदरं होइ ॥१२५॥ ता नरनाह ! पसायं, काऊणं देहि कन्नगं एगं । अवरेण कणगकप्पडदाणेणं तुम्ह पज्जत्तं ॥१२६॥
यावत्तन्नृपभणितं वचनं मन्त्री करोति,तावद्गलिताङ्गुलिनामको मन्त्री द्रुतं-शीघ्रं नरवरस्य-राज्ञः पुरतोऽग्रतः स्थित्वा एवं भणितुं कथयितुं समारब्धः-प्रारम्भं कृतवान् ॥१२२॥हे स्वामिन् ! एषोऽस्माकं प्रभुः- स्वामी उम्बरनाम्ना राजा सर्बत्रापि सुरुकैर्महद्भिर्दानमानैर्मान्यते-नृपादिभिः सक्रियते इत्यर्थः ॥१२३॥ तेन कारणेन अस्माभिर्धनकनकचीरप्रमुखैः किमपि न क्रियते, धनस्वर्णवस्त्रादिभिरस्माकं किमपि कार्यं नास्तीत्यर्थः, एतस्य-उम्बरराज्ञः प्रसादेन वयं सर्वेऽपि अतिशयेन सुखिनः स्मः ॥१२४॥ परं हे नाथ ! एकोऽस्माकं मनश्चिन्तित इत्येवंस्वरूपो विकल्पो- विचारोऽस्ति, यदि अस्माकं राजा इत्येवंस्वरूपां स्वोचितामित्यर्थः, राज्ञी लभते तत्-तर्हि सुन्दरं भवति-शोभनं स्यात् ॥१२५॥ तत्-तस्मात् हे नरनाथ ! -हे राजन् ! प्रसाद कृत्वा एकां कन्यकां देहि अपरेण-अन्येन युष्माकं कनकवस्त्रादिदानेन - पर्याप्तं सृतम्, अपरेण नास्माकं कार्यमित्यर्थः ॥१२६॥
****************************
For Private and Personal Use Only