SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir सामिय! सरूवपुरिसा,सत्तसया नववया ससोंडीरा । दुट्ठकुटुभिभूया, सब्वे एगत्थ संमिलिया ॥११३॥ एगो य ताण बालो,मिलिओ उंबरयवाहिगहियंगो । सो तेहिं परिगहिओ, उंबरराणुत्ति कयनामो ॥११४॥ वरवेसरिमारूढो, तयदोसी छत्तधारओ तस्स । गयनासा चमरधरा, घिणिघिणिसद्दा य अग्गपहा ॥११५॥ गयकन्ना घंटकरा, मंडलवइ अंगरक्खगा तस्स । दडुल थइआइत्तो, गलीअंगुलि नामओ मंती ॥११६॥ हे स्वामिन् ! सप्त शतानि-सप्तशतसङ्ख्याका नवं वयो येषां ते नववयसो युवान इत्यर्थः, सशौण्डीर्याः - पराक्रमवन्तः सरूपाः-रूपवन्तः पुरुषा दुष्टकुष्ठरोगेण अभिभूताः-पीडिताः एते सर्वे एकत्र सम्मिलिताः सन्ति ॥११३॥ च पुनस्तेषांकुष्ठिपुरुषाणामेको बालो मिलितोऽस्ति, कीदृशो बालः?- उम्बरकव्याधिना-कुष्ठरोगविशेषेण गृहीतमङ्गं यस्य स तथोक्तःस बालस्तै : कुष्ठिपुरुषैः परिगृहीतः-सगृहीतः कीदृशः?-उम्बरराणउ इति कृतं नाम यस्य स तथोक्तः॥११४॥ स बालो वरांप्रधानां वेसरीम्-अश्वतरीमारूढोऽस्ति, त्वग्दोषी-श्वेतकुष्ठी पुमान् तस्य उम्बरराजस्य छत्रधारकोऽस्ति,गतनासौ - गलितनासिकौ पुरुषौ चामरधरौ स्तः,तथा रोगवशात् घिणी घिणी इत्येवंशब्दो येषां ते एवंविधा नराः तस्याग्रपथाः सन्ति, अग्रे पन्था येषां ते, अग्रगामिन इत्यर्थः ॥११५॥ गतौ-गलितौ कर्णी येषां ते, एवंविधा नराः तस्य घण्टाकरा - घण्टावादिनः सन्तीत्यर्थः, रक्तमण्डलरोगवन्तः पुरुषास्तस्य अङ्गरक्षकाः सन्ति, (दहुल)त्ति दर्दुरोगी पुमान् “थइयाइत्तों" त्ति स्थगीधरस्ताम्बूलधरोऽस्तीत्यर्थः, तथा गलिताङ्गुलिनामको मन्त्री अस्ति ॥ ११६ ॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy