________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
तो गाढयरं राया, रुट्ठो चिंतेइ दुब्बियड्डाए । एयाइ कओ लहुओ, अहं तओ वेरिणी एसा ॥१०८॥ रोसेण वियडभिउडीभीसणवयणं पलोइऊण निवं । दक्खो भणेइ मंती, सामिय! रइवाडियासमओ ॥१०९॥ रोसेण धमधमंतो, नरनाहो तुरयरयणमारूढो। सामंतमंतिसहिओ, विणिग्गओ रायवाडीए ॥११०॥ जाव पुराओ बाहिं,निग्गच्छइ नरवरो सपरिवारो। ता पुरओ जणवंदं, पिच्छइ साडंबरमियंतं ॥१११॥ तो विम्हिएण रन्ना, पुट्ठो मंती स नायवुत्तंतो । विन्नवइ देव ! निसुणह, कहेमि जणवंदपरमत्थं ॥११२॥
ततस्तदन्तरं राजा गाढतरम्-अत्यर्थं सृष्टः सन् चिन्तयति, किंचिन्तयतीत्याह-दुर्विदग्धया-अज्ञानवत्या एतया पुत्र्याऽहं लघुकः कृतस्ततस्तस्मात्कारणात् एषा मम वैरिणी वर्त्तते न तु पुत्रीति भावः ॥१०८॥ रोषेण-कोपेन विकटा-विकराला या भृकुटी तया भीषणं-भयानकं वदनं मुखं यस्य स तं तथाविधं नृपं प्रलोक्य-दृष्ट्वा दक्षश्चतुरो मन्त्री भणति,स्वामिन् ! राजवाटिकागमनसमयो वर्त्तते ॥१०९॥ तदा रोषेण धमधमायमानो नरनाथः तुरगरत्न-प्रवराश्वमारूढः सामन्तैर्मन्त्रिभिश्च सहितः सन् राजवाटिकायां निर्गतः॥११०॥यावन्नरवरो-राजा सपरिवारः-परिवारसहितः पुराबहिर्निर्गच्छति, तावत् पुरतोऽग्रतःसाडम्बरम्-आडम्बरसहितमायान्तं जनवृन्द-मनुष्यसमूहं प्रेक्षते-पश्यति॥१११॥ ततो ज्ञातो वृत्तान्तो येन स ज्ञातवृत्तान्तः स मन्त्री -अमात्यो विस्मितेन राजा पृष्टः सन् विज्ञपयति, हे देव! यूयं निश्रुणुत अहं जनवृन्दस्य परमार्थ-भावार्थं कथयामि ॥११२॥
For Private and Personal Use Only