________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
****
*
पभणेइ सहालोओ, सामिय ! किमियं मुणेइ मुद्धमई ? । तं चेव कप्परुक्खो, तुट्ठो स्ट्ठो कयंतो य ॥१०३॥ मयणा भणेइ धिद्धी, धणलवमित्तत्थिणो इमे सब्बे । जाणतावि हु अलिअं, मुहप्पियं चेव जपंति॥१०४॥ जइ ताय ! तुह पसाया, सेवयलोआ हवंति सब्वेवि । सुहिया ता समसेवानिरया किं दुक्खिया एगे ?॥१०५॥ तम्हा जो तुम्हाणं, रुच्चइ सो ताय ! मज्झ होउ वरो । जइ अस्थि मज्झ पुन्नं,ता होही निग्गुणोवि गुणी ॥१०६ जइ पुण पुन्नविहीणा, ताय ! अहं ताव सुंदरोवि वरो। होही असुंदरच्चय, नूणं मह कम्मदोसेणं ॥१०७॥
__ अथ सभालोक : प्रभणति - कथयति स्म, हे स्वामिन् इयं मुग्धमतिर्मूढबुद्धिर्बाला किं जानाति?, त्वमेव तुष्टः सन् कल्पवृक्षोऽसि वाञ्छितार्थदायकत्वात्, च - पुनः रुष्टः सन् कृतान्तो - यमतुल्योऽसि सद्योनिग्रहकरणात् ॥१०३॥ एतत्सभालोकवचःश्रुत्वा मदनसुन्दरीभणति, एतान धिधिग्अस्तु, इमेसर्वेलोका धनस्य लवमात्रमर्थयन्तेऽभिषलन्तीत्येवंशीला धनलवमात्रार्थिनः, जानन्तोऽपि हु-निश्चितम् अलीकं-मिथ्यावचनं मुखप्रियं - मुखमिष्टमेव जल्पन्ति ॥१०४॥ हे तात! यदि तव प्रसादात् सर्वेऽपि सेवकलोकाः सुखिनो भवन्ति तत्-तर्हि समा-तुल्या या सेवा तस्यां निरता-तत्परा एके केचित् सेवकलोकाः दुखिताः कथं ?, सर्वेऽपि सुखिन एव युज्यन्ते इति भावः॥१०५॥ तस्मात् हे तात! यो युष्मभ्यं रोचते स एव मम वरो भवतु, यदि मम पुण्यमस्ति तर्हि भवद्दत्तो निर्गुणोऽपि वरो गुणी -गुणवान् भविष्यति ॥१०६॥ यदि पुनर्हे तात ! अहं पुण्यविहीनाऽस्मि तर्हि सुन्दरोऽपि वरो नूनं-निश्चितं मम कर्मदोषेण-मदीयदुष्कर्मदोषात् असुन्दर एव भविष्यति ॥१०७॥ |
।
******
For Private and Personal Use Only