________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
ल
क
हा
२४
www.kobatirth.org
हसिऊण भणइ मयणा, कयसुकयवसेण तुज्झ गेहंमि । उप्पन्ना ताय ! अहं, तेणं माणेमि सुक्खाई ॥९९॥ पुव्वकयं सुकयं चिअ, जीवाणं सुक्खकारणं होइ । दुकयं च कयं दुकखाण, कारणं होइ निब्भंतं ॥१००॥ न सुरासुरेहिं नो नरवरेहिं, नो बुद्धिबलसमिद्धेहिं । कहवि खलिज्जइ इंतो, सुहासुहो कम्मपरिणामो ॥१०१॥ तो रुट्ठो नरनाहो, अहो अहो अप्पपुन्निआ एसा । मझ कयं किंपि गुणं, नो मन्नइ दुब्बियड्डा य ॥१०२॥
-
Acharya Shri Kailassagarsuri Gyanmandir 本
तदा मदनसुन्दरी हसित्वा भणति, हे तात ! कृतसुकृतवशेन प्राग्भवोपार्जितपुण्यबलात् अहं तव गृहे उत्पन्नास्मि तेन सुखानि मानयामि - अनुभवामि ॥९९॥ हे तात ! जीवानां पूर्वकृतं - प्राग्भवोपार्जितं सुकृतं पुण्यमेव सुखस्य कारणं हेतुर्भवति, च - पुनः दुष्कृतं पापं प्राग्भवे कृतं सत् निर्भ्रान्तं- निस्सन्देहं दुःखानां कारणं भवति ॥ १०० ॥ इन्तोति आयन् - उदयमागच्छन् शुभाशुभ: कर्मणां परिणामः कथमपि - केनापि प्रकारेण सुरासुरैर्देवदानवैर्न स्खल्यते- न निराक्रियते, नो नरवरैः- भूपतिभिः स्खल्यते, न पुनर्बुद्धिबलसमृद्धैः स्खल्यते, बुद्धिसमृद्धाः- महाबुद्धयो बलसमृद्धा: -महाबलवन्तस्तैरपि न दूरीक्रियते इत्यर्थः १०१॥ ततः - तद्वचनश्रवणानन्तरं नरनाथो - राजा रुष्टः - कुपितः सन् इत्युवाचेति शेषः, अहो अहो लोका ! एषा कन्या अल्पपुण्यका - हीनपुण्या च- पुनर्दुर्विदग्धा चातुर्य्यरहिताऽस्ति, अत एव मत्कृतं किमपि गुणं न मन्यते ॥ १०२ ॥
For Private and Personal Use Only
*
*
**