________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
***
*****
**********
*
*
*
**
जा कन्ना बहुपुन्ना,दिन्ना कुकुलेवि सा हवइ सुहिया । जा होइ हीणपुन्ना, सुकुले दिन्नावि सा दुहिया ॥९४॥ ता ताय ! नायतत्तस्स, तुज्झ नो जुज्जए इमो गब्बो । जं मज्झ कयपसायापसायओ सुहदुहे लोए ॥९५॥ जो होइ पुन्नबलिओ, तस्स तुमं ताय ! लहु पसीएसि । जो पुण पुण्णविहुणो, तस्य तुमं नो पसीएसि ॥१६॥ भवियव्वया सहावो, दवाइया सहाइणो वावि । पायं पुब्बोवज्जियकम्माणुगया फलं दिति ॥९७॥ तो दुम्मिओ य राया, भणेइ रे तंसि मह पसाएण । वत्थालंकाराई, पहिरंती कीसिमं भणसि ?॥९८॥
या कन्या बहुपुण्या भवेत् सा कुकुले-दरिद्रादिगृहे दत्तापि सुखिता-सुखिनी भवति, या तु हीनपुण्या भवति सा सुकुलेपि दत्ता दुःखिता भवति ॥९४॥ तस्मात्कारणात् हे तात ! ज्ञातं तत्त्वं येन स ज्ञाततत्त्वः तस्य तत्त्वज्ञस्य तव गर्वोन युज्यते, यन्मम कृतप्रसादाऽप्रसादतो लोके सुखदुःखे भवतः, मत्कृतप्रसादतः सुखं मत्कृताप्रसादतो दुःखं भवतीत्यर्थः, अयं गर्वस्तव न युक्तः ॥९५॥ यः पुमान् पुण्यबलिक:-पुण्येन बलवान् भवति तस्योपरि हे तात! त्वं लघु-शीघ्रं प्रसीदसि-प्रसन्नो भवसि,यः पुनः पुण्यहीनो भवेत् तस्योपरि त्वं न प्रसीदसि ॥९६॥ भवितव्यता स्वभावो वा - पुनर्द्रव्याद्या-द्रव्यक्षेत्रकालभावादयः साहाय्यकारिणोपि पूर्वस्मिन् भवे उपार्जितानि यानि कर्माणि तानि अनुगताः -तत्सम्मिलिता एव फलं ददति, न तु तद्व्यतिरिक्ताः ॥१७॥ततश्च-तद्वचनश्रवणानन्तरंच राजा दुर्मनस्कीभूतःसन् भणति-पुत्रीं प्रति कथयति, रे! त्वं मत्प्रसादेन वस्त्रालङ्कारादि विविधाद्भुतनेपथ्याभूषणादि परिधानासि इदं - प्रागुक्तं पुनः कथं भणसि ?॥९८॥
**
**
*
*
******
*
*
For Private and Personal Use Only