________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
ल
क
he 8
हा
२२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सा पुण जिणवयणवियारसारसंजणियनिम्मलविवेआ । लज्जागुणिक्कसज्जा, अहोमुही जा न जंपेइ ॥ ८९ ॥ ताव नरिंदेण पुणो, पुट्ठा सा भणइ ईसि हसिऊणं । ताय ! विवेयसमेओ, मं पुच्छसि तंसि किमजुत्तं ॥ ९० ॥ जेण कुलबालिआओ, न कहंति हवेउ एस मज्झ वरो। जो किर पिऊहिं दिन्नो, सो चेव पमाणियति ॥ ९१ ॥ अम्मापउणोवि निमित्तमित्तमेवेह वरपयामि । पायं पुब्वनिबद्धो, संबंधो होइ जीवाणं ॥९२॥
जे जया जारिसमुवज्जियं होइ कम्म सुहमसुहं । तं तारिसं तया से, संपज्जइ दोरियनिबद्धं ॥९३॥
जिनवचनानां यो विचारसारस्तेन सञ्जनितः समुत्पादितो निर्मलो विवेको यस्याः साइत एव लज्जागुणे एकसज्जा अद्वितीयतत्परा सा पुनर्मदनसुन्दरी अधोमुखी सती यावदुत्तरं न ददाति ॥ ८९ ॥ तावन्नरेन्द्रेण पुनः पृष्टा सा ईषद्धसत्वा भणति - राजानं प्रति कथयति, हे तात! त्वं विवेकसमेतो-विवेकयुक्तोऽसि मां प्रति अयुक्तं किं पृच्छसि ? विवेककलितस्य भवतो मां प्रति एतत्प्रच्छनमयुक्तमिति भावः ॥९०॥ कुत इत्याह-येन कारणेन कुलबालिकाः - सुकुलोत्पन्नाः कन्याः एवं न कथयन्ति, मम एष वरो भवतु, किन्तु यः किल मातापितृभ्यां दत्तः स एव वरः प्रमाणयितव्यः - प्रमाणीकर्तव्यः ॥९१॥ इह-संसारे वरप्रदाने - कन्याया भर्तृप्रदानविषये मातापितरावपि निमित्तमात्रमेव न पुनस्तात्त्विककारणमिति भावः, प्रायो- बाहुल्येन जीवानां पूर्वस्मिन् भवे निबद्धो-रचितः सम्बन्धो भवति, प्रायः येन सह सम्बन्धो रचितो भवेत् तेनैव सह इह सम्बन्धो भवतीत्यर्थः ॥ ९२ ॥ येन प्राणिना यदा यस्मिन् काले यत्-यादृशं शुभमशुभं कर्म उपार्जितं भवति तस्य प्राणिनस्तदा तस्मिन् काले-तत्तादृशं कर्म सम्पद्यते - उदयमायाति, कीदृशं तत् ? दोरिकया निबद्धमिव दोरिकानिबद्धम् ॥९३॥
For Private and Personal Use Only