________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*****************************
ता सबकलाकुसलो, तरुणो वररूवपुण्णलायन्नो । एरिसओ होउ वरो, अहवा ताओ चिअ पमाणं ॥८४॥ जेणं ताय ! तुम चिय, सेवयजणमणसमीहियत्थाणं । पूरणपवणो दीससि, पच्चक्खो कप्परुक्खच ॥८५॥ तो तुट्ठो नरनाहो, दिद्विनिविसेण नायतीइमणा । पभणेइ होउ वच्छे !, एसऽरिदमणो वरो तुज्झ ॥८६॥ तो सयलसभालोओ, पभणइ नरनाह ! एस संजोगो । अइसोहणोऽहिवल्लीपूगतरुणं व निब्भंतं ॥८७॥ अह मयणसुंदरीवि हु,रन्ना नेहेण पुच्छिया वच्छे !! केरिसओ तुज्झ वरो, कीरउ ? मह कहसु अविलंबं ॥८८॥
तर्हि सर्वकलासु कुशलः - चतुरः पुनस्तरुणो-यौवनवयःस्थस्तथा वररूपेण-प्रधानाकृत्या पुण्य-पवित्रं लावण्य-सौन्दर्यं यस्य स वर-ईष्टको योऽयं पुमान् पुरोवर्ती स वरो भवतु, अथवा तात एव प्रमाणं, तातो यं ददाति स एव वरोऽस्तु इत्यर्थः ॥८४॥ अथ सा निजेष्टसिद्ध्यर्थं पितरं स्तौति, हे तात! येन कारणेन त्वमेव सेवकजनस्य मनःसमीहितार्थानां-मनोवाञ्छितकार्याणां पूरणे प्रवणः - तत्परो दृश्यसे, क इव ?-प्रत्यक्षः कल्पवृक्ष इव ॥८५॥ ततो नरनाथो-राजा तद्वचनश्रवणात्तुष्टः सन् प्रभणतिवक्ति, किं बक्ति? इत्याह-हे वत्से ! एषोऽरिदमनः कुमारः तव वरोऽस्तु,कीदृशो नरनाथः? दृष्टिनिवेशेन-कुमारे दृष्टिस्थापनेन ज्ञातं तस्या मनो येन सः॥८६॥ ततः सकलः - समस्तः सभालोकः प्रभणति- हे नरनाथ ! एषोऽनयोः संयोगो निर्धान्तंनिस्सन्देहमतिशोभनः सञ्जात इति शेषः, कयोरिव ?-अहिवल्लीपूगतर्वोरिव-नागवल्लीकुमुकवृक्षयोरिव, यथा तयोः संयोगो अतिशोभनोऽस्ति तथाऽनयोरपीत्यर्थः ॥८७॥ अथानन्तरं राज्ञा मदनसुन्दर्यपि स्नेहेन पृष्टा- हे वत्से! तव कीदृशको वरो भर्ता मया क्रियतां ? ममाग्रेऽविलम्बयथास्यात्तथा शीघ्रमित्यर्थः कथयस्व ॥८८॥
For Private and Personal Use Only