________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
४ अ
क
हा
***
***
*
*
*
*
*
*
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्थत्थि महीपालो, कालो इव वेरिआण दमिआरी । पइवरिसं सो गच्छइ, उज्जेणिनिवस्स सेवाए ॥ ७९ ॥ अन्नदिणे तप्पुत्तो, अरिदमनो नाम तारतारुन्नो । संपत्तो पिअठाणे, उज्जेणिं रायसेवाए ॥८०॥
तं च निवपणमणत्थं, समागयं तत्थ दिव्वरूवधरं । सुरसुंदरी निरिक्खड़, तिक्खकडक्खेहिं ताडंती ॥८१॥ तत्थेव थिरनिवेसिअदिट्ठी दिट्ठा निवेण सा बाला । भणिया य कहसु वच्छे !, तुज्झ वरो केरिसो होउ ? ॥८२॥ तो ती हिट्ठाए, धिट्ठाए मुक्कलोअलज्जाए । भणियं तायपसाया, जइ लब्भइ मग्गियं कहवि ॥८३॥
तत्र तस्यां नगर्य्यां वैरिणां काल इव- कालसदृशो दमितारिर्नाम महीपालो राजाऽस्ति स राजा वर्षं वर्षं प्रति प्रतिवर्षं उज्जयिन्या नगर्य्या नृपस्य-राज्ञः सेवायै-सेवार्थं गच्छति ॥७९॥ अन्यस्मिन् दिने तत्पुत्रो अरिदमनो नाम कुमारो राज्ञः सेवार्थं पितृस्थाने स्वयमुज्जयिनीं सम्प्राप्तः कीदृशो अरिदमनः ? - तारम् उद्भटं तारुण्यं यौवनं यस्य स तारतारुण्यः ॥८०॥ तदा नृपस्य प्रणमनार्थं- नमस्कारार्थं तत्र समागतं दिव्यरूपधरम् - अद्भुतसौन्दर्यधारकम् तमरिदमनकुमारं सुरसुन्दरी नृपकन्या तीक्ष्णैः कटाक्षैः- नेत्रप्रान्तैस्ताडयन्ती निरीक्षते - विलोकयतीति ॥८१॥ तत्र - तस्मिन्नेव कुमारे स्थिरं - निश्चलं यथा स्यात्तथा निवेशिता - स्थापिता दृष्टिर्यया सा एवंविधा सा सुन्दरी-बाला नृपेण दृष्टा भणिता उक्ता च हे वत्से ! त्वं कथयस्व तव वरो - भर्ता कीदृशो भवतु ? ॥८२॥ ततः तदनन्तरं हृष्टया हर्षं प्राप्तया पुनर्धृष्टया धृष्टत्वयुक्तया तथा मुक्ता लोकलज्जा यया सा तया मुक्तलोकलज्जया तया सुरसुन्दर्या भणितम् उक्तम्, किमुक्तमित्याह- तातस्य- पितुः प्रसादात् यदि कथमपि मार्गितं लभ्यते ॥ ८३॥
For Private and Personal Use Only