________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
*
रयणत्तएण सिवपहसंसाहणसावहाणजोगतिगो । साहू हवेइ एसो, अप्पुच्चिय निच्चमपमत्तो ॥१३३१॥ मोहस्स खओवसमा, समसंवेगाइलक्खणं परमं । सुहपरिणाममयं नियमप्पाणं दसणं मुणह ॥१३३२॥ नाणावरणस्स खओवसमेण जहट्ठियाण तत्ताणं । सुद्धावबोहरूवो, अप्पुच्चिय वुच्चए नाणं ॥१३३३॥ सोलसकसायनवनोकसायरहियं विसुद्धलेसागं । ससहावठिअं अप्पाणमेव जाणेह चारित्तं ॥१३३४॥ इच्छानिरोहओ सुद्धसंवरो परिणओ अ समयाए । कम्माइं निज्जरंतो, तवोमओ चेव एसप्पा ॥१३३५॥
रत्नत्रयेण-ज्ञानदर्शनचारित्ररूपेण शिवपथस्य-मोक्षमार्गस्य संसाधने-सम्यगाराधनेसावधानं योगत्रिक मनोवाक्कायरूपं यस्य स तथा, अत एव नित्यमप्रमत्तः-प्रमादरहितः एष आत्मा एव साधुर्भवति ॥ १३३१॥ मोहस्य क्षयोपशमात् 'परमम् उत्कृष्टं शुभपरिणाममयं निज स्वकीयम् आत्मानं दर्शनं-सम्यक्त्वं 'मुणत' जानीत, कीदृशं दर्शनं ?-शमसंवेगादीनि लक्षणानि यस्य तत्तथा ॥१३३२॥ ज्ञानावरणीयस्य कर्मणः क्षयोपशमेन यथास्थितानां-सद्भूतानां जीवादितत्त्वानां यः शुद्धः अवबोधोज्ञानं रूपं-स्वरूपं यस्य स तथाभूत आत्मा एव ज्ञानमुच्यते॥१३३३॥ षोडश कषायाः क्रोधादयः, नव नोकषाया हास्यादयः, तैः रहितम्, अत एव विशुद्धा-निर्मला लेश्या यस्य स, तं विशुद्धलेश्याकम्, ईदृशं स्वस्वभावस्थितं आत्मानमेव चारित्रं जानीत ॥१३३४ ॥ इच्छानिरोधतः-स्पृहानिरोधात् शुद्धः संवरो यस्य स तथा, च - पुनः समतया-समभावेन परिणतः, अत एव कर्माणि निर्जरयन् एष आत्मा एव तपः स्वरूपमस्येति तपोमयोऽस्ति ॥ १३३५ ॥
***********
**********************
********
For Private and Personal Use Only