________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
****************************
रूवाईअसहावो, केवलसन्नाणदसणाणंदो । जो चेव य परमप्पा, सो सिद्धप्पा न संदेहो ॥१३२८॥ पंचप्पत्थाणमयायरियमहामंतझाणलीणमणो । पंचविहायारमओ, आयच्चिअ होइ आयरिओ ॥१३२९॥ महपाणज्झायदुवालसंगसुत्तत्थतदुभयरहस्सो । सज्झायतप्परप्पा एसप्पा चेव उवज्झाओ ॥१३३०॥
रूपं पौगलिक, रूपमतीतः अतिक्रान्तः स्वभावो यस्य स तथा, अत एव केवला:-परिपूर्णाः सज्ज्ञानदर्शनानन्दा यस्य स तथाभूतो य एव परात्मा स सिद्धात्मा उच्यते, नात्र सन्देहः॥१३२८॥पञ्चप्रस्थानमयो यः आचार्यसम्बन्धी महामन्त्रःप्रधानमन्त्रस्तस्य ध्याने लीनं मनो यस्य स तथा, पुनः पञ्चविधो यः आचारः स प्रधानं यस्य सः तथाभूतः आत्मा एव आचार्यो भवति, पञ्च प्रस्थानानि च विद्यापीठ१ सोभाग्यपीठ२ लक्ष्मीपीठ३ मन्त्रयोगराजपीठ४ सुमेरुपीठ५ नामानि, एषामर्थस्तु सूरिमन्त्रकल्पात् ज्ञेयः,भावध्यानमालाप्रकरणे तुअन्यथा पञ्च प्रस्थानान्युक्तानि, तथाहि-अभयप्रस्थानम्१ अकरणप्रस्थानम्र अहमिन्द्रप्रस्थानं३ तुल्यप्रस्थानं४ कल्पप्रस्थानं५ चेति, एषां पञ्चानां स्वामिनः पञ्चपरमेष्ठिनः इत्यादि ॥ १३२९ ॥ महाप्राणेन-ध्यानविशेषेण ध्यातं-चिन्तितं द्वादशाङ्गानां सूत्रस्य अर्थस्य तदुभयस्य च रहस्यं येन स तथा, पुनः स्वाध्यायेवाचनादिपञ्चप्रकारे तत्पर आत्मा यस्य स तथाभूत एष आत्मा एव उपाध्यायः ॥ १३३०॥
********************
For Private and Personal Use Only