________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
देसकुलजाइरूवाइएहिं बहुगुणगणेहिं संजुत्ता । जे हुँति जुगे पवरा, ते आयरिए नमसामि ॥१२३७॥ जे निच्चमप्पमत्ता, विगहविरत्ता कसायपरिचत्ता । धम्मोवएससत्ता, ते आयरिए नमसामि ॥१२३८॥ जे सारणवारणचोयणाहिं पडिचोयणाहिं निच्चंपि । सारंति नियं गच्छं, ते आयरिए नमसामि ॥१२३९॥ जे मुणियसुत्तसारा, परोवयारिक्कतप्परा दिति । तत्तोवएसदाणं, ते आयरिए नमसामि ॥१२४०॥
ये देशकुलजातिरूपादिकैर्बहुभिर्गुणानां गणैः-समूहैः संयुक्ताः-सहिताः सन्तः युगे प्रवरा-मुख्या भवन्ति, तानाचार्यान् अहं नमस्यामि ॥ १२३७ ॥ ये नित्यम् अप्रमत्ताः-प्रमादरहिताः, पुनः विकथा-राजकथादिकास्ताभ्यो विरक्ताः, पुनः परित्यक्ताः कषायाः-क्रोधादयो यैस्ते तथा, पुनर्धर्मोपदेशे सक्ता-लग्नाः यद्वा शक्ताः-समर्थास्तानाचार्यान्नमस्यामि ॥१२३८ ॥ ये आचार्याः स्मारणावारणाचोदनादिभिः पुनः प्रतिचोदनादिभिर्नित्यमपि निजं गच्छं सारयन्ति, तत्र विस्मृतस्य स्मारणं स्मारणा, अशुद्धं पठतो वारणं वारणा, अध्ययनाद्यर्थं प्रेरणं चोदना, कठोरवचनैः प्रेरणं प्रतिचोदना, इत्थं स्मारणादिभिर्ये स्वगच्छस्य रक्षणं कुर्वन्ति तानाचार्यान्नमस्यामि ॥ १२३९ ॥ मुणितो-ज्ञातः सूत्राणां सारो यैस्ते तथा, अत एव परोपकारे एवैकस्मिन् तत्पराः सन्तो ये तत्त्वोपदेशदानं ददति, तानाचार्यान्नमस्यामि ॥ १२४० ॥
For Private and Personal Use Only