________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
अ अ
**
*
ये सिद्धा अनन्तगुणा- अनन्ता ज्ञानादयो येषु ते तथा, पुनर्विगुणा-विगता वर्णादयो गुणा येभ्यस्ते तथा, च-पुनरेकत्रिंशत् संस्थानवर्णादिप्रतिषेधरूपा एव गुणा येषु ते तथा, अथवाऽष्टगुणा-अष्टकर्मक्षयसमुद्भवा अष्टौ गुणा येषु ते तथा, पुनः सिद्धंनिष्पन्नम् अनन्तचतुष्कं - प्रागुक्तलक्षणं येषां ते तथा, ते सिद्धा मे सिद्धिं ददतु ॥ १२३३ ॥ यथा म्लेच्छो नगरगुणान्प्रासादनिवासमधुररसभोजनादीन् जानन्नपि अन्येषां म्लेच्छानां पुरस्तात् कथयितुम् असमर्थः समर्थो न भवति, तथा - तेन प्रकारेण येषां सिद्धानां गुणान् जानन्नपि ज्ञानी कथयितुं न समर्थो भवति, ते सिद्धा मे सिद्धिं ददतु ॥ १२३४ ॥ ये च सिद्धिसुखं मुक्तिसुखं सम्प्राप्तास्ते सिद्धा मे मह्यं सिद्धिं ददतु, कीदृशं सिद्धिसुखम् ? - 'अनन्तं न विद्यते अन्तो-नाशो यस्य तत्तथा, पुनः 'अनुत्तरं न विद्यते उत्तरम् - उत्कृष्टं यस्मात्तत्तथा, पुनः 'अनुपमं' न विद्यते उपमा यस्य तत्तथा, पुनः 'सदानन्दं' सदा-सर्वस्मिन्काले आनन्दो यत्र तत्तथा ॥ १२३५ ॥ ये ज्ञानादिपञ्चविधाचारम् आचरन्तो लोकानामनुग्रहार्थं सदा * प्रकाशयन्ति प्रकटीकुर्वन्ति तान् आचार्यान् अहं नमस्यामि नमस्करोमि ॥ १२३६ ॥
२७८ *
www.kobatirth.org
*
***
***
Acharya Shri Kailassagarsuri Gyanmandir
गुणावगुणा, इगतीसगुणा अ अहव अट्टगुणा । सिद्धाणंतचउक्का, ते सिद्धा दिंतु मे सिद्धिं ॥१२३३॥ जह नगरगुणे मिच्छो, जाणतोऽवि हु कहेउमसमत्थो । तह जेसिं गुणे नाणी, ते सिद्धा दिंतु मे सिद्धिं ॥१२३४॥ अ अनंतमणुत्तरमणोवमं सासयं सयाणंदं । सिद्धिसुहं संपत्ता, ते सिद्धा दिंतु मे सिद्धिं ॥१२३५॥ जे पंचविहायारं, आयरमाणा सया पयासंति । लोयाणणुग्गहत्थं, ते आयरिए नम॑सामि ॥१२३६॥
For Private and Personal Use Only