________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
ल
क
ho
हा
२७७
*
*
*
*
*
*
*
*
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरमंगतिभागोणावगाहणा जे अ एगसमयंमि । संपत्ता लोगग्गं, ते सिद्धा दिंतु मे सिद्धिं ॥ १२२९॥ पुव्वपओग असंगा, बंधणछेया सहावतो वावि । जेसिं उड्ढा हु गई, ते सिद्धा दिंतु मे सिद्धिं ॥१२३०॥ ईसीपब्भाराए, उवरिं खलु जोयणंमि लोगंते । जेसिं ठिई पसिद्धा ते सिद्धा दिंतु मे सिद्धिं ॥१२३१॥ जे अ अणंता अपुणब्भवा य असरीरया अणाबाहा । दंसणनाणुवउत्ता, ते सिद्धा दिंतु मे सिद्धिं ॥१२३२॥
चरमा अन्तिमा अङ्गस्य शरीरस्य त्रिभागेन ऊनावगाहना- देहमानं येषां ते तथा, ये च ईदृशाः सन्तः एकस्मिन्समये लोकाग्रं सम्प्राप्तास्ते सिद्धा मे सिद्धिं ददतु ॥ १२२९ ॥ पूर्वप्रयोगतो धनुर्मुक्तबाणवत्, तथाऽसङ्गात् निःसङ्गतया कर्ममलापगमेन अलाबुद्रव्यवत्, तथा बन्धनच्छेदात्-कर्मबन्धनच्छेदनेन एरण्डफलवत्, तथा स्वभावतो वापि धूमवत्, येषां ऊर्ध्वा गतिः प्रवर्त्तते ते सिद्धा मे सिद्धिं ददतु ॥ १२३० ॥ ईषत्प्राग्भारायाः सिद्धिशिलाया उपरि खलु - निश्चयेन एकस्मिन् योजने लोकान्तोऽस्ति, तत्र येषां स्थितिः - अवस्थानं प्रसिद्धमस्ति ते सिद्धा मे सिद्धिं ददतु ॥ १२३१ ॥ चः पुनः येऽनन्ताः, पुनरपुनर्भवाः- न विद्यते पुनर्भवो येषां ते तथा, पुनरशरीरका न विद्यते शरीरं येषां ते तथा, पुनरनाबाधा न विद्यते आबाधापीडा येषां ते तथा, पुनर्दर्शनं च ज्ञानं च दर्शनज्ञाने तयोरुपयुक्ता दर्शनज्ञानोपयुक्ताः येषां प्रथमसमये ज्ञानोपयोगो द्वितीयसमये दर्शनोपयोगोऽस्ति, ते सिद्धा मे सिद्धिं ददतु ॥ १२३२ ॥
For Private and Personal Use Only
*
*
*
*
*