________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
**-**-*-*-*-******************
कम्मदखइया तह सुरकया य जेसिं च अइसया हुँति । एगारसगुणवीसं, ते अरिहंते पणिवयामि ॥१२२४॥ जे अट्ठपाडिहारेहिं सोहिया सेविया सुरिदेहिं । विहरंति सया कालं, ते अरिहंते पणिवयामि ॥१२२५॥ पणतीसगुणगिराए, जे अ विबोहं कुणंति भब्वाणं । महिपीढे विहरंता, ते अरिहंते पणिवयामि ॥१२२६॥ अरहंता वा सामन्नकेवला अकयकयसमुग्घाया। सेलेसीकरणेणं, होऊणमयोगिकेवलिणो ॥१२२७॥ जे दुचरिमंमि समए, दुसयरिपयडीओ तेरस अ चरमे । खविऊण सिवं पत्ता, ते सिद्धा दितु मे सिद्धिं ॥१२२८॥
चः- पुनः येषां कर्मक्षयजाः-कर्मक्षयोत्पन्ना एकादश अतिशया भवन्ति, तथा सुरैः-देवैः कृताश्च एकोनविंशतिरतिशया भवन्ति, तानर्हतः प्रणिपतामि ॥१२२४ ॥ये 'अष्टप्रातिहाथैः' अशोकवृक्षादिभिः शोभिताः पुनः सुरेन्द्रैः सेविताः सदा कालं विचरन्ति, तानर्हतः प्रणिपतामि ॥१२२५ ॥ पञ्चत्रिंशद्गुणाः यस्यां सा पञ्चत्रिंशद्गुणा या गीः-वाणी तया ये च भव्यानां विबोधं-विशिष्टज्ञानं कुर्वन्ति, कीदृशाः सन्तः ?-महीपीठे-पृथ्वीपीठे विचरन्तस्तानर्हतः प्रणिपतामि ॥ १२२६ ॥ अर्हन्तः तीर्थकरा वा अथवा सामान्यकेवलिनः अकृतः कृतो वा समुद्घातः-केवलिसमुद्घातो यैस्ते तथा एवम्भूता ये योगीन्द्राः शैलेशीकरणेन-आत्मप्रदेशस्थिरीकरणरूपेण अयोगिकेवलिनो भूत्वा ॥१२२७ ॥ द्विचरमे-आयुःक्षयसमयात् प्राक्तने समये द्वासप्ततिं ७२ प्रकृती माद्यघातिकर्मोत्तरप्रकृतीः क्षपयित्वा चः - पुनः चरमे समये त्रयोदश प्रकृतीः क्षपयित्वा शिवं-मोक्षं प्राप्ताः, ते सिद्धा मे-मह्यं मुक्तिं ददतु ॥ १२२८ ॥
For Private and Personal Use Only