________________
Shri Mahavir Jain Aradhana Kendra
www kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
जे एगभवंतरिया, रायकुले उत्तमे अवयरंति । महसुमिणसूइअगुणा, ते अरिहंते पणिवयामि ॥१२१९॥ जेसिं जम्मंमि महिम, दिसाकुमारीओ सुरवरिंदा य । कुब्वंति पहिट्ठमणा, ते अरिहंते पणिवयामि ॥१२२०॥ आजम्मंपि हु जेसिं, देहे चत्तारि अइसया हुंति । लोगच्छेरयभूया ते अरिहंते पणिवयामि ॥१२२१॥ जे तिहुनाणसमग्गा, खीणं नाऊण भोगफलकम्मं । पडिवज्जंति चरितं, ते अरिहंते पणिवयामि ॥१२२२॥ उवउत्ता अपमत्ता, सिअझाणा खवगसेणिहयमोहा । पावंति केवलं जे, ते अरिहंते पणिवयामि ॥१२२३॥
ये एकभवान्तरिता उत्तमे राजकुले अवतरन्ति, कीदृशा ये?-महास्वप्नैश्चतुर्दशभिः सूचिता-ज्ञापिता गुणा येषां ते तथा तानर्हतः प्रणिपतामि-प्रणमामि ॥ १२१९ ॥ येषां जन्मनि महिमा महिमानं वा दिक्कुमार्य्यः षट्पञ्चाशत् सुरवरेन्द्राश्च चतुष्पष्टिः प्रहृष्ट-प्रकर्षेण हर्षितं मनो येषां ते प्रहृष्टमनसः सन्तः कुर्वन्ति, तानर्हतः प्रणिपतामीति पूर्ववत् ॥१२२०॥हु इति निश्चितं, येषां देहे-शरीरे आजन्मापि-जन्मत आरभ्यापि लोके आश्चर्यभूताश्चत्वारोऽतिशया भवन्ति, 'तेषां च देहोऽद्भुतरूपगन्ध' इत्यादयस्तानर्हतः प्रणिपतामि ॥ १२२१ ॥ ये त्रिभिनिः-मतिश्रुतावधिभिः समग्राः-सम्पूर्णाः सन्तो भोगः फलं यस्य तद्भोगफलं कर्म क्षीणं ज्ञात्वा चारित्रं प्रतिपद्यन्ते-अङ्गीकुर्वन्ति तानर्हतः प्रणिपतामि ॥ १२२२ ॥ ये उपयुक्ता-उपयोगयुताः पुनरप्रमत्ताः-प्रमादरहिताः पुनः सितं -शुक्लं ध्यानं येषां ते सितध्यानाः अत एव क्षपकश्रेण्या हतों मोहो यैस्ते तथा, ईदृशाः सन्तः केवलज्ञानं प्राप्नुवन्ति, तानहतः प्रणिपतामि ॥ १२२३ ॥
For Private and Personal Use Only