________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
ते अन्नदिणे रायाएसेणं सीहनामनरवइणो । हणिऊण गाममिक्कं, जा वलिआ गोधणं गहिउं ॥११४५॥ ता पुट्ठि पत्तो सीहो, बहुबलकलिओ पयंडभुअदंडो । तेण कुविएण सन्चे, धाडयपुरिसा हया तत्थ ॥११४६॥ तेऽवि मरिऊण खत्तिअपुत्ता होऊण तरुणभावेऽवि । साहूवसग्गपावप्पसायओ कुविणो जाया ॥११४७॥ जो सिरितो राया, पुन्नपभावेण सो तुम जाओ । सिरिमइजीवो मयणासुंदरि एसा मुणिअतत्ता ॥११४८॥ जं पुबंपि हु धम्मुज्जमपरा तुह हिइक्कतल्लिच्छा । आसि इमा तं जाया, एसा तुह मूलपट्टमि ॥११४९॥
अन्यस्मिन्दिने ते सप्तशतपुरुषा राज्ञ आदेशेन-आज्ञया सिंहनाम्नो नरपतेः-नृपस्य एकं ग्रामं हत्वा गोधनं गृहीत्वा यावत्पश्चाद्वलिताः ॥११४५॥ तावद् बहुबलकलितो-बहुसैन्ययुक्तः पुनः प्रचण्डौ भुजदण्डौ यस्य स तथाभूतः सिंहो राजा तेषां पृष्ठे प्राप्तः, तेन सिंहेन कुपितेन सता तत्र प्रदेशे सर्वे धाटकपुरुषा हताः-मारिता इत्यर्थः ॥११४६॥ तेऽपि सप्तशतनृपसेवका मृत्वा क्षत्रियाणां पुत्रा भूत्वा तरुणभावेऽपि-यौवनेऽपिसाधूपसर्गपापप्रसादात् कुष्ठिनोजाताः,साधूनामुपसर्गाः साधूपसर्गास्ते एव पापहेतुत्वात्पापं तस्य प्रसादात् कुष्ठोत्पत्तिरभूदित्यर्थः ॥११४७॥ यः श्रीकान्तो राजा स पुण्यप्रभावेण त्वं जातः, श्रीमत्या जीव एषा मदनसुन्दरी जाता,कीदृशी एषा? - मुणितं - ज्ञातं तत्त्वं यया सा तथा ॥११४८॥ हु इति निश्चितम्, इयं यद्-यस्मात् कारणात् पूर्वमपि धर्मे य उद्यमः स एव परः-प्रधानः यस्याः सा धर्मोद्यमपरा, पुनस्तव यत् हितं तत्र एका सा एव लिप्सा यस्याः सा एवम्भूता आसीत्, तत्- तस्मात्कारणात् एषा तव मूलपट्टे जाता, मूलपट्टराज्ञी अभूदित्यर्थः ॥११४९॥
२५७
For Private and Personal Use Only