________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*-*-*-*-*-*-*-*-**********
भावस्सुल्लासकए, अरिहाइपसिद्धसिद्धचक्कस्स । आराहणं मुणीहिं, उवइटुं भव्बजीवाणं ॥११४०॥ ता जइ करेइ सम्मं, एयस्साराहणं नरवरोऽवि । तो छुट्टइ सयलाणं, पावाणं नत्थि संदेहो ॥११४१॥ तो सिक्खिऊण पूआतवोविहाणाइअं विहिं राया । भत्तीइ सिद्धचक्कं, आराहइ सिरिमइसमेओ ॥११४२॥ पुन्ने अ तवोकम्मे, रन्ना मंडाविए अ उज्जमणे । सिरिमइसहीहि अट्ठहि, विहिआ अणुमोअणा तस्स ॥११४३॥ सत्तहिं सएहिं तेहिं, सेवयपुरिसेहिं तस्स नरवइणो । ठूण धम्मकरणं, पसंसि किंपि खणमित्तं ॥११४४॥
भावस्य उल्लासकृते-विवृद्धिनिमित्तमर्हदादिभिः पदैः प्रसिद्धसिद्धचक्रस्य आराधनं भव्यजीवेभ्यो मुनिभिः उपदिष्टम् ॥११४०॥ तत्-तस्मात्कारणात् नरवरोऽपि-राजापि यदि सम्यक् एतस्य-श्रीसिद्धचक्रस्य आराधनं करोति तत्-तर्हि सकलेभ्यःसर्वेभ्यः पापेभ्यश्छुटति, अत्र सन्देहो नास्ति ॥११४१॥ ततो राजा पूजायास्तपसश्च यद्विधानं-करणं तदादिकं विधिं शिक्षयित्वा श्रीमत्या राज्या समेतः -सहितो भक्त्या सिद्वचक्रमाराधयति ॥११४२॥ च - पुनस्तपःकर्मणि-तपःक्रियायां पूर्णे सति राज्ञा उद्यापने च मण्डिते सति अष्टभिः श्रीमत्याः सखीभिस्तस्य-उद्यापनयुक्ततपसोऽनुमोदना-प्रशंसा विहिता-कृता ॥११४३॥ तैः सप्तभिः शतैः सेवकपुरुषैः तस्य नरपतेः-राज्ञो धर्मकरणं-प्रागुक्तनीत्या धर्मकार्यकरणं दृष्ट्वा क्षणमात्रं किमपि प्रशंसितम्, अस्माकं स्वामी सम्यक्कार्यं कुरुते इत्यादिका प्रशंसा कृतेत्यर्थः ॥११४४ ॥
For Private and Personal Use Only