________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
ता तुज्झे भो महाभागा !, नाऊणं तत्तमुत्तमं । सम्मं झाएह जं सिग्छ, पावेहाणंदसंपयं ॥ ११०२॥ एवं सो मुणिराओ, काऊणं देसणं ठिओ जाव । ताव सिरिपालराया, विणयपरो जंपए एवं ॥ ११०३ ॥ नाणमहोयहि भयवं ! केण कुकम्मेण तारिसो रोगो । बालत्ते मह जाओ?, केण सुकम्मेण समिओ अ?॥११०४॥ केणं च कम्मणाऽहं, ठाणे ठाणे अ एरिसिं रिद्धिं । संपत्तो ? तह केणं, कुकम्मणा सायरे पडिओ ? ॥११०५॥ तह केण नीअकम्मेण, चेव डुंबत्तणं महाघोरं । पत्तोऽहं ? तं सव्वं, कहेह काऊण सुपसायं ॥ ११०६ ॥
ततः-तस्मात्कारणात् भो ! महाभागा-अहो ! महाभाग्यवन्तो यूयमिदमुत्तमं तत्त्वं ज्ञात्वा सम्यग् यथा स्यात्तथा ध्यायत, यत्-यतःशीघ्रमानन्दसम्पदं-परमाह्लादरूपसम्पत्तिं प्राप्नुत ॥११०२॥ सोऽजितसेनो मुनिराज एवम्-उक्तप्रकारेण देशनां कृत्वा यावत् स्थितस्तावत् श्रीपालो राजा विनयपरः सन् एवं-वक्ष्यमाणप्रकारेण जल्पति-वदति ॥११०३॥हे ज्ञानमहोदधेहे ज्ञानसमुद्र ! हे भगवन् ! केन कुकर्मणा मम बालत्वे तादृशो रोगो जात-उत्पन्नः ? च - पुनः केन सुकर्मणा शान्तोनाशम्प्राप्तः ? ॥११०४॥ च - पुनः केन कर्मणाऽहं स्थाने स्थाने ईदशीमृद्धिं सम्प्राप्तः ? तथा केन कर्मणाऽहं सागरे-समुद्रे पतितः ? ॥ ११०५॥ तथा केन नीचकर्मणा एवाहं महाघोरं-महादारुणं डुम्बत्वं प्राप्तः ? तत्सर्वं सुतरामतिशयेन प्रसाद कृत्वा कथय ॥ ११०६ ॥
For Private and Personal Use Only