________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
ल
क
हा
२४७
** *
***
www.kobatirth.org
एअस्सेवावबोहेणं, तत्तं नाणंपि निच्छयं । एअस्साराहणारूवं, तत्तं चारित्तमेव य ॥ १०९७ ॥ इत्तो जा निज्जरा तीए, रूवं तत्तं तवोऽवि अ । एवमेआई सव्वाई, पयाइं तत्तमुत्तमं ॥ १०९८ ॥ तत्तो नवपई एसा, तत्तभूआ विसेसओ । सब्व्वेहिं भव्वसत्तेहिं, नेआ झेआ य निच्चसो ॥ १०९९ ॥ एयं नवपयं भव्वा !, झायंता सुद्धमाणसा । अप्पणो चेव अप्पंमि, सक्खं पिक्खंति अप्पयं ॥ ११०० ॥ अप्पंमि पिक्खिए जंच, खणे खिज्जइ कम्मयं । न तं तवेण तिब्वेण, जम्मकोडीहिं खिज्जए ॥ ११०१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
एतस्य धर्मस्यैव अवबोधेन- सम्यग्ज्ञानेन निश्वयं-निश्चयात्मकं वस्तुनिर्णयजनकं ज्ञानमपि तत्त्वं च पुनरेतस्य धर्मस्य आराधनारूपं चारित्रमपि तत्त्वम्, एवशब्दोऽप्यर्थे ॥ १०९७ ॥ इतः अस्माच्चारित्रात् या कर्म्मणां निर्जरा तस्या रूपं स्वरूपं तपोऽपि च तत्त्वमस्ति एवम् अमुना प्रकारेण एतानि सर्वाणि पदानि उत्तमं सर्वोत्कृष्टं तत्त्वमस्ति, अत्र जातावेकवचनम् ॥ १०९८॥ ततः-तस्मात्कारणात् एषा-अनन्तरोक्ता नवानां पदानां समाहारो नवपदी सवैर्भव्यसत्त्वैः भव्यप्राणिभिर्विशेषतस्तत्त्वभूता ज्ञेया नित्यशो ध्येया- ध्यातव्या च ॥ १०९९ ॥ एतां नवपदीं ज्ञात्वा शुद्धं मानसं मनो येषां ते शुद्धमानसाः सन्तो ध्यायन्तो नरा आत्मना - स्वयमेव आत्मनि-स्वस्मिन् साक्षात् प्रत्यक्षमात्मानं प्रेक्षन्ते पश्यन्ति ॥ ११०० ॥ आत्मनि प्रेक्षिते दृष्टे सति क्षणेक्षणमात्रे यच्च कर्म क्षीयते तत्कर्म तीव्रेण तपसा जन्मकोटिभिरपि न क्षीयते ॥ ११०१ ॥
For Private and Personal Use Only