________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
सुगुत्तसत्तखित्तीए, सव्वस्सव य सोहिओ। धम्मो जयइ संवित्तो, जंबूदीवोवमो इमो ॥ १०९३ ॥ एसो अ जेहिं पन्नत्तो, तेऽवि तत्तं जिणुत्तमा । एअस्स फलभूआ य, सिद्धा तत्तं न संसओ ॥ १०९४ ॥ दंसंता एयमायारं, तत्तमायरिआवि हु । सिक्खयंता इमं सीसे, तत्तमज्झावयावि अ॥१०९५॥ साहयंता इमं सम्म, तत्तरूवा सुसाहुणो । एअस्स सद्दहाणेणं, सुतत्तं दसणंपि हु ॥ १०९६॥
सर्वस्ववत्-सर्वगृहसारवत् सुगुप्ता-सुष्टु रक्षिता या सप्तक्षेत्री 'जिणभवणबिम्बपुत्थये त्यादिका जम्बूद्वीपपक्षे | भरतैरावतविदेहहैमवतहरण्यवतहरिवर्षरम्यकाख्या तया शोभितो-विराजितः, पुनः सं-सम्यक् वृत्तम्-आचारो यत्र स जम्बूद्वीपपक्षे संवृत्तः-सम्यग् वर्तुलोऽत एव जम्बूद्वीपेन उपमा यस्य स तथाभूतोऽयं धर्मो जयति, सर्वोत्कर्षेण वर्त्तते इत्यर्थः ॥१०९३ ॥ एष धर्मो यैः प्रज्ञप्तः-प्रदर्शितस्ते जिनोत्तमा-जिनेन्द्रा अपि तत्त्वं, एतस्य धर्मस्य फलभूताः सिद्धाश्च तत्त्वं, न संशयः, अत्र सन्देहो नास्तीत्यर्थः ॥१०९४ ॥ एतं धर्मरूपमाचारं दर्शयन्त आचार्या अपि तत्त्वं, तथा शिष्यान् इमं धर्म शिक्षयन्तोऽध्यापका-उपाध्याया अपि च तत्त्वम् ॥१०९५ ॥ इमं धर्मं सम्यक् साधयन्तः सुसाधवस्तत्त्वरूपाः सन्ति, एतस्य धर्मस्य श्रद्धानेन दर्शन-सम्यक्त्वमपि सुष्ठु-शोभनं तत्त्वम् ॥ १०९६ ॥
For Private and Personal Use Only