________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
एसो दसविहोद्देसो, धम्मो कप्पदुमोवमो। जीवाणं पुण्णपुण्णाणं, सबसुक्खाण दायगो ॥१०९०॥ धम्मो चिंतामणी रम्मो, चिंतिअत्थाण दायगो । निम्मलो केवलालोअ-लच्छिविच्छिड्डिकारओ ॥१०९१॥ कल्लाणिक्कमओ वित्त-रूवो मेरूवमो इमो । सुमणाणं मणोतुढेि, देइ धम्मो महोदओ ॥ १०९२॥
दशविधा-दशप्रकारा उद्देशा-अवयवा नामोच्चारणानि वा यस्य स तथाभूत एष धर्मः कल्पद्रुमोपमः-कल्पवृक्षसदृशः पूर्णपुण्येभ्यो जीवेभ्यः सर्वसौख्यानां दायकोऽस्ति, पूर्णं पुण्यं येषां ते पूर्णपुण्यास्तेभ्यः, कल्पवृक्षाणामपि दशविधत्वात्तदुपमो धर्म उक्तः ॥१०९०॥ धर्मश्चिन्तामणिरिव रम्यो-मनोज्ञश्चिन्तितार्थानां-वाञ्छितार्थानां दायको-दाताऽस्ति, कीदृशो धर्मो ? - निर्मलो-निर्दोषः अत एव - केवलालोकः केवलज्ञानरूपप्रकाशः सा एव लक्ष्मीः-सम्पत् तस्या 'विच्छिड्डि'त्ति विस्तारस्तत्कारकः॥१०९१॥ कल्याण-मङ्गलं मेरुपक्षे कल्याणम्-सुवर्णं तदेव एकं स्वरूपमस्येति कल्याणैकमयः, पुनर्वित्तंप्रसिद्ध रूपं-स्वरूपं यस्य स तथा, द्वयोस्तुल्यं विशेषणमिदं, यद्वा मेरुपक्षे वृत्तं-वर्तुलं रूपम्-आकृतिर्यस्य स तथा, पुनर्महान् उदयो यस्मात् स महोदयः, मेरुपक्षे महानुदय-औन्नत्यं यस्य स तथाऽत एव मेरुणा गिरिराजेन उपमा यस्य स मेरूपमोऽयं धर्मः, सुमनसां-शोभनमनोवृत्तीनां जनानां मेरुपक्षे देवानां मनसि तुष्टिं-तोषं ददाति ॥१०९२॥
For Private and Personal Use Only