________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
1 ts he
ल
क
हा
२४४
********
www.kobatirth.org
जायाए तत्तसद्वार, तत्तबोहो सुदुल्लाहो । जं आसन्नसिवा केई, तत्तं बुज्झति जंतुणो ॥ १०८५ ॥ तत्तं दसविहो धम्मो, खंती मद्दव अज्जवं । मुत्ती तवो दया सच्चं, सोयं बंभमकिंचणं ॥ १०८६ ॥ खंतीनाममकोहत्तं, मद्दवं माणवज्जणं । अज्जवं सरलो भावो, मुत्ती निग्गंथया दुहा ॥ १०८७ ॥ तवो इच्छानिरोहो अ, दया जीवाण पालणं । सच्चं वक्कमसावज्जं, सोयं निम्मलचित्तया ॥ १०८८ ॥ बंभमट्ठारभेअस्स, मेहुणस्स विवज्जणं । अकिंचणं न मे कज्जं, केणावित्थित्तिऽणीहया ॥ १०८९ ॥
Acharya Shri Kailassagarsuri Gyanmandir 球
तत्त्वश्रद्धायां तत्त्वप्रतीतौ जातायामपि तत्त्वबोधः-तत्त्वज्ञानं सुदुर्लभः, यद्यस्मात्कारणात्केचित् आसन्नं-निकटं शिवंमुक्तिर्येषां ते आसन्नशिवा एव जन्तवो- जीवाः तत्त्वं बुध्यन्ते, न सर्वेऽपीत्यर्थः ॥ १०८५ ॥ तत्त्वं किमित्याह तत्त्वं दशविधो धर्मस्तथाहि- क्षान्तिः १ मार्दवम् २ आर्जवं ३ मुक्तिः ४ तपः ५ दया ६ सत्यं ७ शौचं ८ ब्रह्म ९ आकिञ्चन्यम् १० ॥ १०८६ ॥ अथैषामर्थानाह- क्षान्तिर्नाम अक्रोधत्वं- क्रोधाभावः १ मार्दवं मानवर्जनम् २ आर्जवम्-सरलो भावः - अभिप्रायः ३ मुक्तिर्द्विधा निर्ग्रन्थता-निर्लोभता, द्रव्यतो भावतश्च परिग्रहरहितत्वमित्यर्थः ४ ॥ १०८७ ॥ इच्छाया निरोधश्च तप उच्यते ५ जीवानां पालनं रक्षणं दया उच्यते ६ असावद्यं निर्दोषं वाक्यं सत्यमुच्यते ७ निर्मलचित्तता शौचमुच्यते ८ ॥ १०८८ ॥ अष्टादशभेदस्य मैथुनस्य विवर्जनं ब्रह्म उच्यते, तत्र औदारिकवैक्रियभेदाद् द्विविधं मैथुनं, तदेकैकमपि मनोवाक्कायैः करणकारणानुमतिभेदान्नवविधं द्वयोर्मिलने अष्टादशविधमिति ९, केनापि वस्तुना मम कार्यं न नास्ति इत्येवं यानीहतानिःस्पृहता तत् आकिञ्चन्यमुच्यते १० ॥ १०८९ ॥
For Private and Personal Use Only
***********