________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
महंतेणं च पुन्नेणं, जाएवि गुरुसंगमे । आलस्साईहिं रुद्धाणं, दुल्लहं गुरुदंसणं ॥ १०८०॥ कहं कहंपि जीवाणं, जाएऽवि गुरुदंसणे । बुग्गाहियाण धुत्तेहिं, दुल्लहं पज्जुवासणं ॥१०८१॥ गुरुपासेवि पत्ताणं, दुल्लहा आगमस्सुई। जं निद्दा विगहाओ अ, दुज्जआओ सयाइवि ॥ १०८२॥ संपत्ताए सुईएवि, तत्तबुद्धी सुदुल्लहा । जं सिंगारकहाईसु, सावहाणमणो जणो ॥ १०८३ ॥ उवइटेऽवि तत्तंमि, सद्धा अच्चंतदुल्लहा । जं तत्तरुइणो जीवा, दीसंति विरला जए ॥ १०८४ ॥
कदाचित् महता पुण्येन च गुरुसङ्गमे जातेऽपि आलस्यादिभिः त्रयोदशतस्करै रुद्धानां प्राणिनां गुरुदर्शनं दुर्लभं, ते चामी “आलस्समोहवन्ना, थंभा कोहा पमायकिवणत्ता । भयसोगा अन्नाणा, विक्खेवकुऊहला रमणा ॥१॥" ॥ इति ॥१०८०॥जीवानां कथंकथमपि-केन केनापि प्रकारेण गुरुदर्शने जातेऽपि धूतैर्युद्ग्राहितानां-भान्तचित्तीकृतानां पर्युपासनंगुरुसेवनं दुर्लभम् ॥१०८१॥गुरुपार्श्वे प्राप्तानामपि आगमस्य-सिद्धान्तस्य श्रुतिः-श्रवणं दुर्लभा, यत्-यस्मात्कारणात् निद्रा विकथाश्च सदापि दुर्जयाः सन्ति, तत्प्रसङ्गात् श्रवणं दुर्लभमपीत्यर्थः ॥ १०८२ ॥ श्रुतौ-आगमश्रवणे सम्प्राप्तायामपि तत्त्वबुद्धिः सुदुर्लभा, यत्-यस्मात्कारणात् जनो-लोकः शृगारकथादिषु-शृङ्गारहास्यादिकथासु सावधानम्-एकाग्र्ययुक्तं मनो यस्य स तथा बहुद्देश्यते इति शेषः॥गुरुभिस्तत्त्वे उपदिष्टेपि श्रद्धा-आस्तिक्यमत्यन्तदुर्लभा, यद्-यस्मात् कारणात्तत्त्वेषुजिनोक्तपदार्थेषु रुचिर्येषां ते तत्त्वरुचयो जीवा जगति-लोके विरला दृश्यन्ते ॥१०८४ ॥
**********************
For Private and Personal Use Only