________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
भो भो भब्वा ! भवोहंमि, दुल्लहो माणुसो भवो । चुल्लगाईहिं नाएहिं, आगमंमि विआहिओ ॥ १०७५ ॥ लद्धंमि माणुसे जम्मे, दुल्लहं खित्तमारिअं । जं दीसंति इहाणेगे, मिच्छा भिल्ला पुलिंदया ॥ १०७६ ॥ आरिएसु अ खित्तेसु, दुल्लहं कुलमुत्तमं । जं वाहसुणियाईणं, कुले जायाण को गुणो ? ॥ १०७७ ॥ कुले लद्धेऽवि दुल्लंभं, रूवमारुग्गमाउअं । विगला वाहिआऽकाल-मया दीसंति जं जणा ॥ १०७८ ॥ तेसु सब्बेसु लढेसु, दुल्लहो गुरुसंगमो । जं सया सबखित्तेसु, पाविज्जंति न साहुणो ॥ १०७९ ॥
भो! भो! भव्या भवौघे-भवसमूहे मानुषो-मनुष्यसम्बन्धी भवो-जन्म आगमे-सिद्धान्ते चुल्लकादिभिः-चुल्लगपासगधन्ने इत्यादिभितिः-दृष्टान्तैः दुर्लभो -दुष्पापो व्याख्यात-उक्तः ॥१०७५ ॥ कदाचित् मानुषे जन्मनि लब्धे सति आर्य क्षेत्रं दुर्लभम्, यद्-यस्मात्कारणात् इह भरते अनार्यक्षेत्रेषु अनेके बहवो म्लेच्छा भिल्लाः पुलिन्दाश्च म्लेच्छभेदा एव दृश्यन्तेविलोक्यन्ते॥१०७६ ॥ आर्येषु च क्षेत्रेषु उत्तमं कुलं दुर्लभं यद्-यस्मात्कारणात् व्याधसौनिकादीनां-लुब्धकखटिकादीनां कुलेषु जातानाम्-उत्पन्नानां को गुणः ?, न कोऽपीत्यर्थः ॥१०७७॥कुले लब्धेऽपि रूपं-परिपूर्णेन्द्रियपञ्चकंतथा आरोग्य-नीरोगता तथा आयुष्कं महदायुः एतत्त्रयं दुर्लभम्, यद्-यस्मात्कारणात् जना-उत्तमकुलोद्भवा अपि बहवो लोका विकलादूषितेन्द्रियास्तथा व्याधिता-रोगिणस्तथाऽकाले मृता दृश्यन्ते॥१०७८॥तेषु रूपादिषु सर्वेषु लब्धेष्वपि गुरुसङ्गमः-सद्गुरोः सङ्गो दुर्लभः, यद्-यस्मात्कारणात् सर्वक्षेत्रेषु सदा साधवो न प्राप्यन्ते ॥ १०७९ ॥
For Private and Personal Use Only