________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
नायमग्गेण रज्जं, पालंतो पियअमाहिं संजुत्तो। सिरिसिरिपालनरिंदो, इंदुव्व करेइ लीलाओ ॥१०७०॥ अह अजिअसेणनामा, रायरिसी सो विसुद्धचारित्तो । उप्पन्नावहिनाणो, समागओ तत्थ नयरीए ॥१०७१॥ तस्सागमणं सोऊण नरवरो पुलइओ पमोएणं । माइपियाहिं समेओ, संपत्तो वंदणनिमित्तं ॥१०७२॥ - तिपयाहिणित्तु सम्म, तं मुणिनाहं नमित्तु नरनाहो । पुरओ अ संनिविट्ठो, सपरीवारो अ विणयपरो ॥१०७३॥ सोऽवि सिरिअजिअसेणो, मुणिराओ रायरोसपरिमुक्को । करुणिक्कपरो परमं, धम्मसरूवं कहइ एवं ॥१०७४॥
न्यायमार्गेण राज्य पालयन प्रियतमाभिः-वल्लभाभिः संयुक्तः-सहितः श्रीश्रीपालनरेन्द्र इन्द्र इव लीला:-क्रीडाः करोति ॥१०७०॥अथ स श्रीअजितसेननामा राजर्षिस्तत्र नगर्यां-चम्पायां समागतः, कीदृशः सः ?- विशुद्धं-निर्मलं चारित्रं यस्य स तथाऽत एव उत्पन्नमवधिज्ञानं यस्य स तथाभूतः॥१०७१॥तस्य-राजर्षेरागमनं श्रुत्वा नरवरो-राजा श्रीपालः प्रमोदेनहर्षेण पुलकितः-सञ्जातरोमोद्गमः सन् मात्रा-जनन्या प्रियाभिश्च-वल्लभाभिः समेतः-सहितो वन्दननिमित्तं-मुनेः वन्दनार्थं सम्प्राप्तः ॥ १०७२ ॥ नरनाथो-राजा श्रीपालस्तं-मुनिनाथं त्रिः प्रदक्षिणीकृत्य पुनः सम्यग् नत्वा प्रणम्य पुरतः-अग्रतश्च संनिविष्टः, कीदृशो नरनाथः ?- सपरिवारः-परिवारसहितश्च-पुनर्विनयपरः॥१०७३ ॥ सः श्रीअजितसेनोऽपि मुनिराजो रागरोषपरिमुक्तो-रागद्वेषाभ्यां समन्ताद्रहितः, पुनः करुणा परा-प्रकृष्टा यस्य स तथाभूतः सन् एवं-वक्ष्यमाणप्रकारेण परमंप्रधानं धर्मस्य स्वरूपं कथयति ॥ १०७४ ॥
For Private and Personal Use Only